वाल्मीकि रामायणे अरण्यकाण्ड - एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः

॥ साहाय्यकानभ्युपगमः ॥

एवमस्मि तदा मुक्तः कथञ्चित्तेन सम्युगे ।
इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम् ॥ १ ॥

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ २ ॥

दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः ।
व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥ ३ ॥

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण ।
अत्यन्तघोरो व्यचरं तापसान् सम्प्रधर्षयन् ॥ ४ ॥

निहत्य दण्डकारण्ये तापसान् धर्मचरिणः ।
रुधिराणि पिबन्तस्तेषां तथा मांसानि भक्षयन् ॥ ५ ॥

ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् ।
तथा रुधिरमत्तोऽहं विचरन् धर्मदूषकः ॥ ६ ॥

आसादयं तदा रामं तापसं धर्मचारिणम् ।
वैदेहीं च महाभागां लक्ष्मणं च महरथम् ॥ ७ ॥

तापसं नियताहारं सर्वभूतहिते रतम् ।
सोऽहं वनगतं रामं परिभूय महाबलम् ॥ ८ ॥

तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ।
अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ॥ ९ ॥

जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ।
तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ॥ १० ॥

विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः ।
ते बाणा वज्रसङ्काशाः सुमुक्ता रक्तभोजनाः ॥ ११ ॥

आजग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः ।
पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा ॥ १२ ॥

समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ।
शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम् ॥ १३ ॥

इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ।
वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ॥ १४ ॥

गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ।
अपि रामसहस्राणि भीतः पश्यामि रावण ॥ १५ ॥

रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ।
राममेव हि पश्यामि रहिते राक्षसाधिप ॥ १६ ॥

दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ।
रकारादीनि नामानि रामत्रस्तस्य रावण ॥ १७ ॥

रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ।
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ॥ १८ ॥

बलिं वा नमुचिं वाऽपि हन्याद्धि रघुनन्दनः ।
रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस ॥ १९ ॥

न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ।
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ॥ २० ॥

परेषामपराधेन विनष्टाः सपरिच्छदाः ।
सोऽहं तवापराधेन विनाश्येयं निशाचर ॥ २१ ॥

कुरु यत्ते क्षमं तत्त्वमहं त्वां नानुयामि ह ।
रामश्च हि महातेजा महासत्त्वो महाबलः ॥ २२ ॥

अपि राक्षसलोकस्य न भवेदन्तको हि सः ।
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ॥ २३ ॥

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥ २४ ॥

इदं वचो बन्धुहितार्थिना मया
यथोच्यमानं यदि नाभिपत्स्यसे ।
सबान्धवस्त्यक्ष्यसि जीवितं रणे
हतोऽद्य रामेण शरैरजिह्मगैः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनचत्वारिंशस्सर्गः ॥ ३९ ॥

<< 38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा 40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः >>

1. प्रथमः सर्गः – महर्षिसङ्घः

2. द्वितीयः सर्गः – विराधसंरोधः

3. तृतीयः सर्गः – विराधप्रहारः

4. चतुर्थः सर्गः – विराधनिखननम्

5. पञ्चमः सर्गः – शरभङ्गब्रह्मलोकप्रस्थानम्

6. षष्ठः सर्गः – रक्षोवधप्रतिज्ञानम्

7. सप्तमः सर्गः – सुतीक्ष्णाश्रमः

8. अष्टमः सर्गः – सुतीक्ष्णाभ्यनुज्ञा

9. नवमः सर्गः – सीताधर्मावेदनम्

10. दशमः सर्गः – रक्षोवधसमर्थनम्

11. एकादशः सर्गः – अगस्त्याश्रमः

12. द्वादशः सर्गः – अगस्त्यदर्शनम्

13. त्रयोदशः सर्गः – पञ्चवटीगमनम्

14. चतुर्दशः सर्गः – जटायुःसङ्गमः

15. पञ्चदशः सर्गः – पञ्चवटीपर्णशाला

16. षोडशः सर्गः – हेमन्तवर्णनम्

17. सप्तदशः सर्गः – शूर्पणखाभावाविष्करणम्

18. अष्टादशः सर्गः – शूर्पणखाविरूपणम्

19. एकोनविंशः सर्गः – खरक्रोधः

20. विंशः सर्गः – चतुर्दशरक्षोवधः

21. एकविंशः सर्गः – खरसन्धुक्षणम्

22. द्वाविंशः सर्गः – खरसंनाहः

23. त्रयोविंशः सर्गः – उत्पातदर्शनम्

24. चतुर्विंशः सर्गः – रामखरबलसंनिकर्षः

25. पञ्चविंशः सर्गः – खरसैन्यावमर्दः

26. षड्विंशः सर्गः – दूषणादिवधः

27. सप्तविंशः सर्गः – त्रिशिरोवधः

28. अष्टाविंशः सर्गः – खररामसम्प्रहारः

29. एकोनत्रिंशः सर्गः – खरगदाभेदनम्

30. त्रिंशः सर्गः – खरसंहारः

31. एकत्रिंशः सर्गः – रावणखरवृत्तोपलम्भः

32. द्वात्रिंशः सर्गः – शूर्पणखोद्यमः

33. त्रयोस्त्रिंशः सर्गः – रावणनिन्दा

34. चतुस्त्रिंशः सर्गः – सीताहरणोपदेशः

35. पञ्चत्रिंशः सर्गः – मारीचाश्रमपुनर्गमनम्

36. षट्त्रिंशः सर्गः – सहायैषणा

37. सप्तत्रिंशः सर्गः – अप्रियपथ्यवचनम्

38. अष्टात्रिंशः सर्गः – रामास्त्रमहिमा

39. एकोनचत्वारिंशः सर्गः – साहाय्यकानभ्युपगमः

40. चत्वारिंशः सर्गः – मायामृगरूपपरिग्रहनिर्बन्धः

41. एकचत्वारिंशः सर्गः – रावणनिन्दा

42. द्विचत्वारिंशः सर्गः – स्वर्णमृगप्रेक्षणम्

43. त्रिचत्वारिंशः सर्गः – लक्ष्मणशङ्काप्रतिसमाधानम्

44. चतुश्चत्वारिंशः सर्गः – मारीचवञ्चना

45. पञ्चचत्वारिंशः सर्गः – सीतापारुष्यम्

46. षट्चत्वारिंशः सर्गः – रावणभिक्षुसत्कारः

47. सप्तचत्वारिंशः सर्गः – रावणाधिक्षेपः

48. अष्टचत्वारिंशः सर्गः – रावणविकत्थनम्

49. एकोनपञ्चाशः सर्गः – सीतापहरणम्

50. पञ्चाशः सर्गः – जटायुरभियोगः

51. एकपञ्चाशः सर्गः – जटायूरावणयुद्धम्

52. द्विपञ्चाशः सर्गः – सीताविक्रोशः

53. त्रिपञ्चाशः सर्गः – रावणभर्त्सनम्

54. चतुःपञ्चाशः सर्गः – लङ्काप्रापणम्

55. पञ्चपञ्चाशः सर्गः – सीताविलोभनोद्यमः

56. षट्पञ्चाशः सर्गः – वत्सरावधिकरणम्

57. सप्तपञ्चाशः सर्गः – रामप्रत्यागमनम्

58. अष्टपञ्चाशः सर्गः – अनिमित्तदर्शनम्

59. एकोनषष्टितमः सर्गः – लक्ष्मणागमनविगर्हणम्

60. षष्टितमः सर्गः – रामोन्मादः

61. एकषष्टितमः सर्गः – सीतान्वेषणम्

62. द्विषष्टितमः सर्गः – राघवविलापः

63. त्रिषष्टितमः सर्गः – दुःखानुचिन्तनम्

64. चतुःषष्टितमः सर्गः – रामक्रोधः

65. पञ्चषष्टितमः सर्गः – क्रोधसंहारप्रार्थना

66. षट्षष्टितमः सर्गः – औचित्यप्रबोधनम्

67. सप्तषष्टितमः सर्गः – गृध्रराजदर्शनम्

68. अष्टषष्टितमः सर्गः – जटायुःसंस्कारः

69. एकोनसप्ततितमः सर्गः – कबन्धग्राहः

70. सप्ततितमः सर्गः – कबन्धबाहुच्छेदः

71. एकसप्ततितमः सर्गः – कबन्धशापाख्यानम्

72. द्विसप्ततितमः सर्गः – सीताधिगमोपायः

73. त्रिसप्ततितमः सर्गः – ऋश्यमूकमार्गकथनम्

74. चतुःसप्ततितमः सर्गः – शबरीस्वर्गप्राप्तिः

75. पञ्चसप्ततितमः सर्गः – पम्पादर्शनम्