एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ॥ ७.१११.१ ॥
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् । येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ७.१११.२ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ॥ ७.१११.३ ॥
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ॥ ७.१११.४ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ७.१११.५ ॥
पापान्यपि च यः कुर्यादहन्यहनि मानवः । पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥ ७.१११.६ ॥
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ ७.१११.७ ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ॥ ७.१११.८ ॥
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् । ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥ ७.१११.९ ॥
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् । कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥ ७.१११.१० ॥
अश्वमेधसहस्रस्य वाजपेयायुतस्य च । लभते श्रावणादेव सर्गस्यैकस्य मानवः ॥ ७.१११.११ ॥
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि । गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ॥ ७.१११.१२ ॥
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति । यश्च रामायणं लोके शृणोति सदृशावुभौ ॥ ७.१११.१३ ॥
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् । सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥ ७.१११.१४ ॥
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् । यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥ ७.१११.१५ ॥
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा । सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ॥ ७.१११.१६ ॥
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ ७.१११.१७ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ७.१११.१८ ॥
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह । भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ ७.१११.१९ ॥
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति । श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ॥ ७.१११.२० ॥
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् । सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ ७.१११.२१ ॥
पिता पितामहस्तस्य तथैव प्रपितामहः । तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥ ७.१११.२२ ॥
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु । तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ॥ ७.१११.२३ ॥
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ ७.१११.२४ ॥
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ ७.१११.२५ ॥
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदुत्तरकाण्डे एकादशोत्तरशततमः सर्गः ॥ १११ ॥
॥ इत्युत्तरकाण्डः समाप्तः ॥
॥ इत्यार्षे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमद्रामायणं सम्पूर्णम् ॥
॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥
<< 110. दशोत्तरशततमः सर्गः . >>111. एकादशोत्तरशततमः सर्गः