विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ ७.४४.१ ॥
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ ७.४४.२ ॥
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ७.४४.३ ॥
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ७.४४.४ ॥
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ७.४४.५ ॥
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ७.४४.६ ॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥ ७.४४.७ ॥
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ७.४४.८ ॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ७.४४.९ ॥
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥ ७.४४.१० ॥
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ॥ ७.४४.११ ॥
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ॥ ७.४४.१२ ॥
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ ७.४४.१३ ॥
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ ७.४४.१४ ॥
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ ७.४४.१५ ॥
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ ७.४४.१६ ॥
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥ ७.४४.१७ ॥
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥ ७.४४.१८ ॥
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ ७.४४.१९ ॥
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः । सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ॥ ७.४४.२० ॥
तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥ ७.४४.२१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
<< 43. त्रिचत्वारिंशः सर्गः 45. पञ्चचत्वारिंशः सर्गः >>44. चतुश्चत्वारिंशः सर्गः