राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा । ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ ७.१२.१ ॥
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ ७.१२.२ ॥
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ७.१२.३ ॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मनुष्यमृगे वने । अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ॥ ७.१२.४ ॥
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ७.१२.५ ॥
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया । दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ७.१२.६ ॥
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७.१२.७ ॥
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ७.१२.८ ॥
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥ ७.१२.९ ॥
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥ ७.१२.१० ॥
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ७.१२.११ ॥
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ॥ ७.१२.१२ ॥
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः । एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ ७.१२.१३ ॥
त्वामिदानीं कथं तात जानीयां को भवानिति । एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ॥ ७.१२.१४ ॥
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् ॥ ७.१२.१५ ॥
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः । दातुं दुहितरं तस्मै रोचयामास यत्र वै ॥ ७.१२.१६ ॥
करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ ७.१२.१७ ॥
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ ७.१२.१८ ॥
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत । प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ॥ ७.१२.१९ ॥
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् । विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥ ७.१२.२० ॥
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् । परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ॥ ७.१२.२१ ॥
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ॥ ७.१२.२२ ॥
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः । तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ॥ ७.१२.२३ ॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ॥ ७.१२.२४ ॥
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि । सरस्तदा मानसं तु ववृधे जलदागमे ॥ ७.१२.२५ ॥
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः । सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् ॥ ७.१२.२६ ॥
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः । स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ ७.१२.२७ ॥
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ ७.१२.२८ ॥
जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ ७.१२.२९ ॥
जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ ७.१२.३० ॥
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ॥ ७.१२.३१ ॥
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ॥ ७.१२.३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥
<< 11. एकादशः सर्गः 13. त्रयोदशः सर्गः >>12. द्वादशः सर्गः