वाल्मीकि रामायणे उत्तरकाण्डम् - नवमः सर्गः

कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः । रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ ७.९.१ ॥

नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ ७.९.२ ॥

राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् । तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ७.९.३ ॥

गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ॥ ७.९.४ ॥

रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः । इत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ७.९.५ ॥

किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ ७.९.६ ॥

पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते । प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७.९.७ ॥

त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ७.९.८ ॥

न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ७.९.९ ॥

त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ ७.९.१० ॥

सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ७.९.११ ॥

ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ॥ ७.९.१२ ॥

सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥ ७.९.१३ ॥

एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ ७.९.१४ ॥

अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ ७.९.१५ ॥

स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ ७.९.१६ ॥

भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ ७.९.१७ ॥

एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥ ७.९.१८ ॥

किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ ७.९.१९ ॥

स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ ७.९.२० ॥

सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ ७.९.२१ ॥

शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ ७.९.२२ ॥

प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ ७.९.२३ ॥

भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ ७.९.२४ ॥

कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ ७.९.२५ ॥

पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ ७.९.२६ ॥

एवमुक्ता तु सा कन्या राम कालेन केनचित् । जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ ७.९.२७ ॥

दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ ७.९.२८ ॥

तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः । क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ ७.९.२९ ॥

ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ७.९.३० ॥

चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥ ७.९.३१ ॥

अथ नामाकरोत्तस्य पितामहसमः पिता । दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ॥ ७.९.३२ ॥

तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ ७.९.३३ ॥

ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ७.९.३४ ॥

तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ ७.९.३५ ॥

नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥ ७.९.३६ ॥

तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ७.९.३७ ॥

कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ॥ ७.९.३८ ॥

विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ७.९.३९ ॥

अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ७.९.४० ॥

तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ७.९.४१ ॥

पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ७.९.४२ ॥

दशग्रीव तथा यत्नं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ॥ ७.९.४३ ॥

मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ७.९.४४ ॥

सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा । भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥ ७.९.४५ ॥

ततस्तेनैव कोपेन दशग्रीवः सहानुजः । चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ७.९.४६ ॥

प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च । आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ७.९.४७ ॥

स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ ७.९.४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवमः सर्गः ॥ ९ ॥

<< 8. अष्टमः सर्गः 10. दशमः सर्गः >>

1. प्रथमः सर्गः

2. द्वितीयः सर्गः

3. तृतीयः सर्गः

4. चतुर्धः सर्गः

5. पञ्चमः सर्गः

6. षष्ठः सर्गः

7. सप्तमः सर्गः

8. अष्टमः सर्गः

9. नवमः सर्गः

10. दशमः सर्गः

11. एकादशः सर्गः

12. द्वादशः सर्गः

13. त्रयोदशः सर्गः

14. चतुर्दशः सर्गः

15. पञ्चदशः सर्गः

16. षोडशः सर्गः

17. सप्तदशः सर्गः

18. अष्टादशः सर्गः

19. एकोनविंशः सर्गः

20. विंशः सर्गः

21. एकविंशः सर्गः

22. द्वाविंशः सर्गः

23. त्रयोविंशः सर्गः

24. चतुर्विंशः सर्गः

25. पञ्चविंशः सर्गः

26. षड्विंशः सर्गः

27. सप्तविंशः सर्गः

28. अष्टाविंशः सर्गः

29. एकोनत्रिंशः सर्गः

30. त्रिंशः सर्गः

31. एकत्रिंशः सर्गः

32. द्वात्रिंशः सर्गः

33. त्रयस्त्रिंशः सर्गः

34. चतुस्त्रिंशः सर्गः

35. पञ्चत्रिंशः सर्गः

36. षट्त्रिंशः सर्गः

37. सप्तत्रिंशः सर्गः

38. अष्टात्रिंशः सर्गः

39. एकोनचत्वारिंशः सर्गः

40. चत्वारिंशः सर्गः

41. एकचत्वारिंशः सर्गः

42. द्विचत्वारिंशः सर्गः

43. त्रिचत्वारिंशः सर्गः

44. चतुश्चत्वारिंशः सर्गः

45. पञ्चचत्वारिंशः सर्गः

46. षट्चत्वारिंशः सर्गः

47. सप्तचत्वारिंशः सर्गः

48. अष्टचत्वारिंशः सर्गः

49. एकोनपञ्चाशः सर्गः

50. पञ्चाशः सर्गः

51. एकपञ्चाशः सर्गः

52. द्विपञ्चाशः सर्गः

53. त्रिपञ्चाशः सर्गः

54. चतुःपञ्चाशः सर्गः

55. पञ्चपञ्चाशः सर्गः

56. षट्पञ्चाशः सर्गः

57. सप्तपञ्चाशः सर्गः

58. अष्टपञ्चाशः सर्गः

59. एकोनषष्टितमः सर्गः

60. षष्टितमः सर्गः

61. एकषष्टितमः सर्गः

62. द्विषष्टितमः सर्गः

63. त्रिषष्टितमः सर्गः

64. चतुःषष्टितमः सर्गः

65. पञ्चषष्टितमः सर्गः

66. षट्षष्टितमः सर्गः

67. सप्तषष्टितमः सर्गः

68. अष्टषष्टितमः सर्गः

69. एकोनसप्ततितमः सर्गः

70. सप्ततितमः सर्गः

71. एकसप्ततितमः सर्गः

72. द्विसप्ततितमः सर्गः

73. त्रिसप्ततितमः सर्गः

74. चतुः सप्ततितमः सर्गः

75. पञ्चसप्ततितमः सर्गः

76. षट्सप्ततितमः सर्गः

77. सप्तसप्ततितमः सर्गः

78. अष्टसप्ततितमः सर्गः

79. एकोनाशीतितमः सर्गः

80. अशीतितमः सर्गः

81. एकाशीतितमः सर्गः

82. द्वयशीतितमः सर्गः

83. त्र्यशीतितमः सर्गः

84. चतुरशीतितमः सर्गः

85. पञ्चाशीतितमः सर्गः

86. षडशीतितमः सर्गः

87. सप्ताशीतितमः सर्गः

88. अष्टाशीतितमः सर्गः

89. एकोननवतितमः सर्गः

90. नवतितमः सर्गः

91. एकनवतितमः सर्गः

92. द्विनवतितमः सर्गः

93. त्रिनवतितमः सर्गः

94. चतुर्नवतितमः सर्गः

95. पञ्चनवतितमः सर्गः

96. षण्णवतितमः सर्गः

97. सप्तनवतितमः सर्गः

98. अष्टनवतितमः सर्गः

99. एकोनशततमः सर्गः

100. शततमः सर्गः

101. एकोत्तरशततमः सर्गः

102. द्वयुत्तरशततमः सर्गः

103. त्रयुत्तरशततमः सर्गः

104. चतुरूत्तरशततमः सर्गः

105. पञ्चोत्तरशततमः सर्गः

106. षडुत्तरशततमः सर्गः

107. सप्तोत्तरशततमः सर्गः

108. अष्टोत्तरशततमः सर्गः

109. नवोत्तरशततमः सर्गः

110. दशोत्तरशततमः सर्गः

111. एकादशोत्तरशततमः सर्गः