॥ रामरावणास्त्रपरम्परा ॥
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ ।
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥ १ ॥
आविवेश महान्क्रोधो रावणं तं महामृधे ।
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥
निहतानाममात्यानां रुद्धस्य नगरस्य च ।
दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।
प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः ।
हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ५ ॥
स दिशो दश घोषेण रथस्यातिरथो महान् ।
नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ६ ॥
पूरिता तेन शब्देन सनदीगिरिकानना ।
सञ्चचाल मही सर्वा सवराहमृगद्विपा ॥ ७ ॥
तामसं स महाघोरं चकारास्त्रं सुदारुणम् ।
निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥ ८ ॥
उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः ।
न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ९ ॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ १० ॥
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।
स ददर्श ततो रामं तिष्ठन्तमपारजितम् ॥ ११ ॥
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ।
आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥ १२ ॥
पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ।
ततो रामो महातेजाः सौमित्रिसहितो बली ॥ १३ ॥
वानरांश्च रणे भग्नानापतन्तं च रावणम् ।
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १४ ॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम् ।
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १५ ॥
रावणस्य च बाणौघै रामविस्फारितेन च ।
शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १६ ॥
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः ।
स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १७ ॥
तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।
मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १८ ॥
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।
बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १९ ॥
एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।
लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥ २० ॥
अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः ।
आससाद ततो रामं स्थितं शैलमिवाचलम् ॥ २१ ॥
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः ।
व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ २२ ॥
शरधारास्ततो रामो रावणस्य धनुश्च्युताः ।
दृष्ट्वैवापततः शीघ्रं भल्लान्जग्राह सत्वरम् ॥ २३ ॥
तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।
दीप्यमानान्महाघोरान्क्रुद्धानाशीविषानिव ॥ २४ ॥
राघवो रावणं तूर्णं रावणो राघवं तदा ।
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २५ ॥
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।
बाणवेगान्समुत्क्षिप्तावन्योन्यमपारजितौ ॥ २६ ॥
तयोर्भूतानि वित्रेसुर्युगपत्सम्प्रयुध्यतोः ।
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २७ ॥
सन्ततं विविधैर्बाणैर्बभूव गगनं तदा ।
घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २८ ॥
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ।
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥ २९ ॥
शरान्धकारं तौ भीमं चक्रुतुः समरं तदा ।
गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ ३० ॥
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३१ ॥
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।
उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ३२ ॥
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः ।
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३३ ॥
ततः संसक्तहस्तस्तु रावणो लोकरावणः ।
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३४ ॥
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।
शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥ ३५ ॥
अथ मन्त्रानभिजपन्रौद्रमस्त्रमुदीरयन् ।
शरान्भूयः समादाय रामः क्रोधसमन्वितः ॥ ३६ ॥
मुमोच च महातेजाश्चापमायम्य वीर्यवान् ।
ते महामेघसङ्काशे कवचे पतिताः शराः ॥ ३७ ॥
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ।
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ॥ ३८ ॥
ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ।
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ॥ ३९ ॥
श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ।
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः ॥ ४० ॥
आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ।
सिंहव्याघ्रमुखाश्चान्यान्कङ्ककाकमुखानपि ॥ ४१ ॥
गृध्रश्येनमुखांश्चाऽपि शृगालवदनांस्तथा ।
ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयानकान् ॥ ४२ ॥
पञ्चास्याँल्लेलिहानांश्च ससर्ज निशितान् शरान् ।
शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ॥ ४३ ॥
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ।
एतानन्यांश्च मायावी ससर्ज निशितान् शरान् ॥ ४४ ॥
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ।
आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः ॥ ४५ ॥
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ।
अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ॥ ४६ ॥
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ।
ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान् ॥ ४७ ॥
विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशितान् शरान् ।
ते रावणशरा घोरा राघवास्त्रसमाहताः ॥ ४८ ॥
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ।
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ ४९ ॥
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ।
सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ ५० ॥
ततस्तदस्त्रं विनिहत्य राघवः
प्रसह्य तद्रावणबाहुनिःसृतम् ।
मुदान्वितो दाशरथिर्महाहवे
विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥ १०० ॥
<< 99.एकोनशततमः सर्गः – महापार्श्ववधः 101.एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः >>1. प्रथमः सर्गः – हनूमत्प्रशंसनम्
2. द्वितीयः सर्गः – रामप्रोत्साहनम्
3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्
4. चतुर्धः सर्गः – रामाभिषेणनम्
5. पञ्चमः सर्गः – रामविप्रलम्भः
6. षष्ठः सर्गः – रावणमन्त्रणम्
8. अष्टमः सर्गः – प्रहस्तादिवचनम्
9. नवमः सर्गः – विभीषणसमालोचनम्
10. दशमः सर्गः – विभीषणपथ्योपदेशः
11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः
12. द्वादशः सर्गः – कुम्भकर्णमतिः
13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्
14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः
15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः
16. षोडशः सर्गः – विभीषणाक्रोशः
17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्
18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः
19. एकोनविंशः सर्गः – शरतल्पसंवेशः
20. विंशः सर्गः – सुग्रीवभेदनोपायः
21. एकविंशः सर्गः – समुद्रसङ्क्षोभः
22. द्वाविंशः सर्गः – सेतुबन्धः
23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्
24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा
25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं
26. षड्विंशः सर्गः – कपिबलावेक्षणम्
27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्
28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्
29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्
30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्
31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः
32. द्वात्रिंशः सर्गः – सीताविलापः
33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्
34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्
35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः
36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा
37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः
38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्
39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्
40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्
41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्
42. द्विचत्वारिंशः सर्गः – युद्धारम्भः
43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्
44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्
45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः
46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः
47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्
48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्
49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः
50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्
51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्
52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः
53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्
54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः
55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्
56. षट्पञ्चाशः सर्गः – अकम्पनवधः
57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्
58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः
59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्
60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः
61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्
62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना
63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक
64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः
65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्
66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्
67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः
68. अष्टषष्टितमः सर्गः – रावणानुशोकः
69. एकोनसप्ततितमः सर्गः – नरान्तकवधः
70. सप्ततितमः सर्गः – देवान्तकादिवधः
71. एकसप्ततितमः सर्गः – अतिकायवधः
72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः
73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्
74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्
75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः
76. षट्सप्ततितमः सर्गः – कम्पनादिवधः
77. सप्तसप्ततितमः सर्गः – निकुम्भवधः
78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्
79. एकोनाशीतितमः सर्गः – मकराक्षवधः
80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्
81. एकाशीतितमः सर्गः – मायासीतावधः
82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः
83. त्र्यशीतितमः सर्गः – रामाश्वासनम्
84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्
85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्
86. षडशीतितमः सर्गः – रावणिबलकदनम्
87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा
88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्
89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्
90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्
91. एकनवतितमः सर्गः – रावणिवधः
92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा
93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः
94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्
95. पञ्चनवतितमः सर्गः – राक्षसीविलापः
96. षण्णवतितमः सर्गः – रावणाभिषेणनम्
97. सप्तनवतितमः सर्गः – विरूपाक्षवधः
98. अष्टनवतितमः सर्गः – महोदरवधः
99. एकोनशततमः सर्गः – महापार्श्ववधः
100. शततमः सर्गः – रामरावणास्त्रपरम्परा
101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः
102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्
103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्
104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः
105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्
106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्
107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्
108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्
109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्
110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्
111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः
112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः
113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्
114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः
115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः
116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्
117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्
118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः
119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः
120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः
121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः
122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः
123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्
124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्
125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्
126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्
127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्
128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्
129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्