॥ देवान्तकादिवधः ॥
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः ।
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः ।
वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥
भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली ।
आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥ ३ ॥
रथमादित्यसङ्काशं युक्तं परमवाजिभिः ।
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ ४ ॥
स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः ।
वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ५ ॥
देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गदः ।
महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ ६ ॥
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ।
स वृक्षं कृत्तमालोक्य उत्पपात तदाऽङ्गदः ॥ ७ ॥
स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः ।
तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ॥ ८ ॥
परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः ।
त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः ॥ ९ ॥
गजेन समभिद्रुत्य वालिपुत्रं महोदरः ।
जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ॥ १० ॥
देवान्तकश्च सङ्क्रुद्धः परिघेण तदाऽङ्गदम् ।
उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ११ ॥
स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः ।
न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥
स वेगवान्महावेगं कृत्वा परमदुर्जयः ।
तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ १३ ॥
तस्य तेन प्रहारेण नागराजस्य सम्युगे ।
पेततुर्लोचने तस्य विननाद स वारणः ॥ १४ ॥
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ।
देवान्तकमभिप्लुत्य ताडयामास सम्युगे ॥ १५ ॥
स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः ।
लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ॥ १६ ॥
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ।
आविध्य परिघं घोरमाजघान तदाऽङ्गदम् ॥ १७ ॥
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ।
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ १८ ॥
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।
घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ १९ ॥
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुङ्गवैः ।
हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥ २० ॥
ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा ।
तद्रावणसुतो धीमान्बिभेद निशितैः शरैः ॥ २१ ॥
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् ।
सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ २२ ॥
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ।
परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २३ ॥
तमापतन्तमुत्प्लुत्य हनुमान्मारुतात्मजः ।
आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ २४ ॥
शिरसि प्रहरन्वीरस्तदा वायुसुतो बली ।
नादेनाकम्पयच्चैव राक्षसान्स महाकपिः ॥ २५ ॥
स मुष्टिनिष्पिष्टविकीर्णमूर्धा
निर्वान्तदन्ताक्षिविलम्बिजिह्वः ।
देवान्तको राक्षसराजसूनुः
गतासुरुर्व्यां सहसा पपात ॥ २६ ॥
तस्मिन्हते राक्षसयोधमुख्ये
महाबले सम्यति देवशत्रौ ।
क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं
ववर्ष नीलोरसि बाणवर्षम् ॥ २७ ॥
महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम् ।
भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ॥ २८ ॥
ततो बाणमयं वर्षं नीलस्योरस्यपातयत् ।
गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥ २९ ॥
ततः शरौघैरभिवर्ष्यमाणो
विभिन्नगात्रः कपिसैन्यपालः ।
नीलो बभूवाथ निसृष्टगात्रो
विष्टम्भितस्तेन महाबलेन ॥ ३० ॥
ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां
शैलं समुत्पाट्य सवृक्षषण्डम् ।
ततः समुत्पत्य भृशोग्रवेगो
महोदरं तेन जघान मूर्ध्नि ॥ ३१ ॥
ततः स शैलेन्द्रनिपातभग्नो
महोदरस्तेन महाद्विपेन ।
विपोथितो भूमितले गतासुः
पपात वज्राभिहतो यथाद्रिः ॥ ३२ ॥
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।
हनुमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ॥ ३३ ॥
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः ।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ ३४ ॥
तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः ।
विससर्ज रणे तस्मिन्रावणस्य सुतं प्रति ॥ ३५ ॥
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् ।
त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ ३६ ॥
ततो हनूमानुत्प्लुत्य हयांस्त्रिशिरसस्तदा ।
विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ ३७ ॥
अथ शक्तिं समादाय कालरात्रिमिवान्तकः ।
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ३८ ॥
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् ।
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३९ ॥
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता ।
प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ ४० ॥
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ।
निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥ ४१ ॥
खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः ।
आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ॥ ४२ ॥
स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि ।
निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ४३ ॥
स तस्य पततः खड्गं समाच्छिद्य महाकपिः ।
ननाद गिरिसङ्काशस्त्रासयन्सर्वनैरृतान् ॥ ४४ ॥
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः ।
उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ४५ ॥
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः ।
कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ ४६ ॥
स तस्य शीर्षाण्यसिना शितेन
किरीटजुष्टानि सकुण्डलानि ।
क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य
त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ ४७ ॥
तान्यायताक्षाण्यगसन्निभानि
प्रदीप्तवैश्वानरलोचनानि ।
पेतुः शिरांसीन्द्ररिपोर्धरण्यां
ज्योतींषि मुक्तानि यथाऽर्कमार्गात् ॥ ४८ ॥
तस्मिन्हते देवरिपौ त्रिशीर्षे
हनूमता शक्रपराक्रमेण ।
नेदुः प्लवङ्गाः प्रचचाल भूमी
रक्षांस्यथो दुद्रुविरे समन्तात् ॥ ४९ ॥
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ।
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ ५० ॥
चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः ।
जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ॥ ५१ ॥
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् ।
विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ॥ ५२ ॥
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम् ।
ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ ५३ ॥
गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः ।
हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ ५४ ॥
अथर्षभः समुत्पत्य वानरो रावणानुजम् ।
मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥ ५५ ॥
तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् ।
आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ ५६ ॥
स तयाऽभिहतस्तेन गदया वानरर्षभः ।
भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५७ ॥
स सम्प्राप्य चिरात्सञ्ज्ञामृषभो वानरर्षभः ।
अभिदुद्राव वेगेन गदां तस्य महात्मनः ॥ ५८ ॥ [जग्राह]
गृहीत्वा तां गदां भीमामाविध्य च पुनः पुनः ।
मत्तानीकं महात्मानं जघान रणमूर्धनि ॥ ५९ ॥
स स्वया गदया भग्नो विशीर्णदशनेक्षणः ।
निपपात ततो मत्तो वज्राहत इवाचलः ॥ ६० ॥
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि ।
पतिते राक्षसे तस्मिन्विद्रुतं राक्षसं बलम् ॥ ६१ ॥
तस्मिन्हते भ्रातरि रावणस्य
तन्नैरृतानां बलमर्णवाभम् ।
त्यक्तायुधं केवलजीवितार्थं
दुद्राव भिन्नार्णवसन्निकाशम् ॥ ६२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः ॥ ७० ॥
<< 69.एकोनसप्ततितमः सर्गः – नरान्तकवधः 71.एकसप्ततितमः सर्गः – अतिकायवधः >>1. प्रथमः सर्गः – हनूमत्प्रशंसनम्
2. द्वितीयः सर्गः – रामप्रोत्साहनम्
3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्
4. चतुर्धः सर्गः – रामाभिषेणनम्
5. पञ्चमः सर्गः – रामविप्रलम्भः
6. षष्ठः सर्गः – रावणमन्त्रणम्
8. अष्टमः सर्गः – प्रहस्तादिवचनम्
9. नवमः सर्गः – विभीषणसमालोचनम्
10. दशमः सर्गः – विभीषणपथ्योपदेशः
11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः
12. द्वादशः सर्गः – कुम्भकर्णमतिः
13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्
14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः
15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः
16. षोडशः सर्गः – विभीषणाक्रोशः
17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्
18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः
19. एकोनविंशः सर्गः – शरतल्पसंवेशः
20. विंशः सर्गः – सुग्रीवभेदनोपायः
21. एकविंशः सर्गः – समुद्रसङ्क्षोभः
22. द्वाविंशः सर्गः – सेतुबन्धः
23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्
24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा
25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं
26. षड्विंशः सर्गः – कपिबलावेक्षणम्
27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्
28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्
29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्
30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्
31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः
32. द्वात्रिंशः सर्गः – सीताविलापः
33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्
34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्
35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः
36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा
37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः
38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्
39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्
40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्
41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्
42. द्विचत्वारिंशः सर्गः – युद्धारम्भः
43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्
44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्
45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः
46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः
47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्
48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्
49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः
50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्
51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्
52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः
53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्
54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः
55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्
56. षट्पञ्चाशः सर्गः – अकम्पनवधः
57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्
58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः
59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्
60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः
61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्
62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना
63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक
64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः
65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्
66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्
67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः
68. अष्टषष्टितमः सर्गः – रावणानुशोकः
69. एकोनसप्ततितमः सर्गः – नरान्तकवधः
70. सप्ततितमः सर्गः – देवान्तकादिवधः
71. एकसप्ततितमः सर्गः – अतिकायवधः
72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः
73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्
74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्
75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः
76. षट्सप्ततितमः सर्गः – कम्पनादिवधः
77. सप्तसप्ततितमः सर्गः – निकुम्भवधः
78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्
79. एकोनाशीतितमः सर्गः – मकराक्षवधः
80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्
81. एकाशीतितमः सर्गः – मायासीतावधः
82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः
83. त्र्यशीतितमः सर्गः – रामाश्वासनम्
84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्
85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्
86. षडशीतितमः सर्गः – रावणिबलकदनम्
87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा
88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्
89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्
90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्
91. एकनवतितमः सर्गः – रावणिवधः
92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा
93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः
94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्
95. पञ्चनवतितमः सर्गः – राक्षसीविलापः
96. षण्णवतितमः सर्गः – रावणाभिषेणनम्
97. सप्तनवतितमः सर्गः – विरूपाक्षवधः
98. अष्टनवतितमः सर्गः – महोदरवधः
99. एकोनशततमः सर्गः – महापार्श्ववधः
100. शततमः सर्गः – रामरावणास्त्रपरम्परा
101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः
102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्
103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्
104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः
105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्
106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्
107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्
108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्
109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्
110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्
111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः
112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः
113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्
114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः
115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः
116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्
117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्
118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः
119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः
120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः
121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः
122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः
123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्
124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्
125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्
126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्
127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्
128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्
129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्