वाल्मीकि रामायणे युद्धकाण्ड - अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

॥ विभीषणसङ्ग्रहनिर्णयः ॥

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ।
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥ १ ॥

ममापि तु विवक्षाऽस्ति काचित्प्रति विभीषणम् ।
श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ॥ २ ॥

मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन ।
दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ॥ ३ ॥

सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ ४ ॥

सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः ।
ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥ ५ ॥

को नाम स भवेत्तस्य यमेष न परित्यजेत् ।
वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य च ॥ ६ ॥

ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् ।
इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥ ७ ॥

अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ।
न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥ ८ ॥

अस्ति सूक्ष्मतरं किञ्चिद्यदत्र प्रतिभाति मे ।
प्रत्यक्षं लौकिकं वाऽपि विद्यते सर्वराजसु ॥ ९ ॥

अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥ १० ॥

अपापास्तत्कुलीनाश्च मानयन्ति स्वकान्हितान् ।
एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ ११ ॥

यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च ।
तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ॥ १२ ॥

न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः ।
पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥ १३ ॥

अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सङ्गताः ।
प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥ १४ ॥ [प्रवादः]

इति भेदं गमिष्यन्ति तस्माद्ग्राह्यो विभीषणः ।
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥ १५ ॥

मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ।
एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः ॥ १६ ॥

उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ।
रावणेन प्रणिहितं तमवेहि विभीषणम् ॥ १७ ॥

तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ।
राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमिहागतः ॥ १८ ॥

प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वाऽनघ ।
लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह ॥ १९ ॥

रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ।
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः ॥ २० ॥

वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ।
सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो विमृश्य च ॥ २१ ॥

ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ।
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ॥ २२ ॥

सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथञ्चन ।
पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् ॥ २३ ॥

अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर ।
श्रूयते हि कपोतेन शत्रुः शरणमागतः ॥ २४ ॥

अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ।
स हि तं प्रतिजग्राह भार्याहर्तारमागतम् ॥ २५ ॥

कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ।
ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा ॥ २६ ॥

शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना ।
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् ॥ २७ ॥

न हन्यादानृशंस्यार्थमपि शत्रुं परन्तप ।
आर्तो वा यदि वा दृप्तः परेषां शरणागतः ॥ २८ ॥

अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ।
स चेद्भयाद्वा मोहाद्वा कामाद्वाऽपि न रक्षति ॥ २९ ॥

स्वया शक्त्या यथासत्त्वं तत्पापं लोकगर्हितम् । [त्वया,न्यायं]
विनष्टः पश्यतस्तस्यारक्षिणः शरणागतः ॥ ३० ॥

आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ।
एवं दोषो महानत्र प्रपन्नानामरक्षणे ॥ ३१ ॥

अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ।
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ॥ ३२ ॥

धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये ।
सकृदेव प्रपन्नाय तवास्मीति च याचते ॥ ३३ ॥

अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ।
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥ ३४ ॥

विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ।
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः ॥ ३५ ॥

प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः ।
किमत्र चित्रं धर्मज्ञ लोकनाथ सुखावह ॥ ३६ ॥

यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सत्पथे स्थितः ।
मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम् ॥ ३७ ॥

अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ।
तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ।
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥ ३८ ॥

ततस्तु सुग्रीववचो निशम्य
तद्धरीश्वरेणाभिहितं नरेश्वरः ।
विभीषणेनाशु जगाम सङ्गमं
पतत्त्रिराजेन यथा पुरन्दरः ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः ॥ १८ ॥

<< 17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम् 19. एकोनविंशः सर्गः – शरतल्पसंवेशः >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः