वाल्मीकि रामायणे युद्धकाण्ड - सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

॥ हरादिवानरपराक्रमाख्यानम् ॥

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ १ ॥

स्निग्धा यस्य बहुव्यामा वाला लाङ्गूलमाश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ २ ॥

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः ।
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ॥ ३ ॥

यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः ।
द्रुमानुद्यम्य सहसा लङ्कारोहणतत्पराः ॥ ४ ॥

एष कोटिसहस्रेण वानराणां महौजसाम् ।
आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय ॥ ५ ॥

यूथपा हरिराजस्य किङ्कराः समुपस्थिताः ।
नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ ६ ॥

असिताञ्जनसङ्काशान्युद्धे सत्यपराक्रमान् ।
असङ्ख्येयाननिर्देश्यान्परं पारमिवोदधेः ॥ ७ ॥

पर्वतेषु च ये केचिद्विषमेषु नदीषु च ।
एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ॥ ८ ॥

एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः ।
पर्जन्य इव जीमूतैः समन्तात्परिवारितः ॥ ९ ॥

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् ।
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ १० ॥

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् ।
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमैः ॥ ११ ॥

स एष जाम्बवान्नाम महायूथपयूथपः ।
प्रक्रान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥ १२ ॥

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता ।
दैवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ १३ ॥

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः ।
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ १४ ॥

राक्षसानां च सदृशाः पिशाचानां च लोमशाः ।
एतस्य सैन्या बहवो विचरन्त्यग्नितेजसः ॥ १५ ॥

यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् ।
प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥ १६ ॥

एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः ।
बलेन बलसम्पन्नो दम्भो नामैष यूथपः ॥ १७ ॥

यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते ।
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ १८ ॥

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते ।
श्रुतः सन्नादनो नाम वानराणां पितामहः ॥ १९ ॥

येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता ।
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ २० ॥

यस्य विक्रममाणस्य शक्रस्येव पराक्रमः ।
एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः ॥ २१ ॥

तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ।
यस्य वैश्रवणो राजा जम्बूमुपनिषेवते ॥ २२ ॥

यो राजा पर्वतेन्द्राणां बहुकिन्नरसेविनाम् ।
विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप ॥ २३ ॥

तत्रैव वसति श्रीमान्बलवान्वानरर्षभः ।
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः ॥ २४ ॥

वृतः कोटिसहस्रेण हरीणां समुपस्थितः ।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २५ ॥

यो गङ्गामनुपर्येति त्रासयन्हस्तियूथपान् ।
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ २६ ॥

एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः ।
गजान्योधयते वन्याग्निरींश्चैव महीरुहान् ॥ २७ ॥

हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु ।
उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम् ॥ २८ ॥

रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् ।
एनं शतसहस्राणां सहस्रमनुवर्तते ॥ २९ ॥

वीर्यविक्रमदृप्तानां नर्दतां बलशालिनाम् ।
स एष नेता चैतेषां वानराणां महात्मनाम् ॥ ३० ॥

स एष दुर्धरो राजन्प्रमाथी नाम यूथपः ।
वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ ३१ ॥

अनीकमपि संरब्धं वानराणां तरस्विनाम् ।
उद्धूतमरुणाभासं पवनेन समन्ततः ॥ ३२ ॥

विवर्तमानं बहुधा यत्रैतद्बहुलं रजः ।
एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ॥ ३३ ॥

शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ।
गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ॥ ३४ ॥

परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ।
भ्रमराचरिता यत्र सर्वकालफलद्रुमाः ॥ ३५ ॥

यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम् ।
यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ॥ ३६ ॥

यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ।
सर्वकामफला वृक्षाः सदा फलसमन्विताः ॥ ३७ ॥

मधूनि च महार्हाणि यस्मिन्पर्वतसत्तमे ।
तत्रैष रमते राजन्रम्ये काञ्चनपर्वते ॥ ३८ ॥

मुख्यो वानरमुख्यानां केसरी नाम यूथपः ।
षष्ठिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ॥ ३९ ॥

तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ।
तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ॥ ४० ॥

निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः ।
सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ॥ ४१ ॥

सर्वे वैश्वानरसमा ज्वलिताशीविषोपमाः ।
सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसन्निभाः ॥ ४२ ॥

महापर्वतसङ्काशा महाजीमूतनिःस्वनाः ।
वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः ॥ ४३ ॥

मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥ ४४ ॥

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।
नाम्ना पृथिव्यां विख्यातो राजन् शतवलीति यः ॥ ४५ ॥

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥ ४६ ॥

रामप्रियार्थं प्राणानां दयां न कुरुते हरिः ।
गजो गवाक्षो गवयो नलो नीलश्च वानरः ॥ ४७ ॥

एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ।
तथाऽन्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः ।
न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः ॥ ४८ ॥

सर्वे महाराज महाप्रभावाः
सर्वे महाशैलनिकाशकायाः ।
सर्वे समर्थाः पृथिवीं क्षणेन
कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ ४९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

<< 26. षड्विंशः सर्गः – कपिबलावेक्षणम् 28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम् >>

1. प्रथमः सर्गः – हनूमत्प्रशंसनम्

2. द्वितीयः सर्गः – रामप्रोत्साहनम्

3. तृतीयः सर्गः – लङ्कादुर्गादिकथनम्

4. चतुर्धः सर्गः – रामाभिषेणनम्

5. पञ्चमः सर्गः – रामविप्रलम्भः

6. षष्ठः सर्गः – रावणमन्त्रणम्

7. सप्तमः सर्गः – सचिवोक्तिः

8. अष्टमः सर्गः – प्रहस्तादिवचनम्

9. नवमः सर्गः – विभीषणसमालोचनम्

10. दशमः सर्गः – विभीषणपथ्योपदेशः

11. एकादशः सर्गः – द्वितीयमन्त्राधिवेशः

12. द्वादशः सर्गः – कुम्भकर्णमतिः

13. त्रयोदशः सर्गः – महापार्श्ववचोऽभिनन्दनम्

14. चतुर्दशः सर्गः – प्रहस्तविभीषणविवादः

15. पञ्चदशः सर्गः – इन्द्रजिद्विभीषणविवादः

16. षोडशः सर्गः – विभीषणाक्रोशः

17. सप्तदशः सर्गः – विभीषणशरणागतिनिवेदनम्

18. अष्टादशः सर्गः – विभीषणसङ्ग्रहनिर्णयः

19. एकोनविंशः सर्गः – शरतल्पसंवेशः

20. विंशः सर्गः – सुग्रीवभेदनोपायः

21. एकविंशः सर्गः – समुद्रसङ्क्षोभः

22. द्वाविंशः सर्गः – सेतुबन्धः

23. त्रयोविंशः सर्गः – लङ्काभिषेणनम्

24. चतुर्विंशः सर्गः – रावणप्रतिज्ञा

25. पञ्चविंशः सर्गः – शुकसारणप्रेषणादिकं

26. षड्विंशः सर्गः – कपिबलावेक्षणम्

27. सप्तविंशः सर्गः – हरादिवानरपराक्रमाख्यानम्

28. अष्टाविंशः सर्गः – मैन्दादिपराक्रमाख्यानम्

29. एकोनत्रिंशः सर्गः – शार्दूलादिचारप्रेषणम्

30. त्रिंशः सर्गः – वानरबलसङ्ख्यानम्

31. एकत्रिंशः सर्गः – विद्युज्जिह्वमायाप्रयोगः

32. द्वात्रिंशः सर्गः – सीताविलापः

33. त्रयस्त्रिंशः सर्गः – सरमासमाश्वासनम्

34. चतुस्त्रिंशः सर्गः – रावणनिश्चयकथनम्

35. पञ्चत्रिंशः सर्गः – माल्यवदुपदेशः

36. षट्त्रिंशः सर्गः – पुरद्वाररक्षा

37. सप्तत्रिंशः सर्गः – रामगुल्मविभागः

38. अष्टात्रिंशः सर्गः – सुवेलारोहणम्

39. एकोनचत्वारिंशः सर्गः – लङ्कादर्शनम्

40. चत्वारिंशः सर्गः – रावणसुग्रीवनियुद्धम्

41. एकचत्वारिंशः सर्गः – अङ्गददूत्यम्

42. द्विचत्वारिंशः सर्गः – युद्धारम्भः

43. त्रिचत्वारिंशः सर्गः – द्वन्द्वयुद्धम्

44. चतुश्चत्वारिंशः सर्गः – निशायुद्धम्

45. पञ्चचत्वारिंशः सर्गः – नागपाशबन्धः

46. षट्चत्वारिंशः सर्गः – सुग्रीवाद्यनुशोकः

47. सप्तचत्वारिंशः सर्गः – नागबद्धरामलक्ष्मणप्रदर्शनम्

48. अष्टचत्वारिंशः सर्गः – सीताश्वासनम्

49. एकोनपञ्चाशः सर्गः – रामनिर्वेदः

50. पञ्चाशः सर्गः – नागपाशविमोक्षणम्

51. एकपञ्चाशः सर्गः – धूम्राक्षाभिषेणनम्

52. द्विपञ्चाशः सर्गः – धूम्राक्षवधः

53. त्रिपञ्चाशः सर्गः – वज्रदंष्ट्रयुद्धम्

54. चतुःपञ्चाशः सर्गः – वज्रदंष्ट्रवधः

55. पञ्चपञ्चाशः सर्गः – अकम्पनयुद्धम्

56. षट्पञ्चाशः सर्गः – अकम्पनवधः

57. सप्तपञ्चाशः सर्गः – प्रहस्तयुद्धम्

58. अष्टपञ्चाशः सर्गः – प्रहस्तवधः

59. एकोनषष्टितमः सर्गः – रावणाभिषेणनम्

60. षष्टितमः सर्गः – कुम्भकर्णप्रबोधः

61. एकषष्टितमः सर्गः – कुम्भकर्णवृत्तकथनम्

62. द्विषष्टितमः सर्गः – रावणाभ्यर्थना

63. त्रिषष्टितमः सर्गः – कुम्भकर्णानुशोक

64. चतुःषष्टितमः सर्गः – सीताप्रलोभनोपायः

65. पञ्चषष्टितमः सर्गः – कुम्भकर्णाभिषेणनम्

66. षट्षष्टितमः सर्गः – वानरपर्यवस्थापनम्

67. सप्तषष्टितमः सर्गः – कुम्भकर्णवधः

68. अष्टषष्टितमः सर्गः – रावणानुशोकः

69. एकोनसप्ततितमः सर्गः – नरान्तकवधः

70. सप्ततितमः सर्गः – देवान्तकादिवधः

71. एकसप्ततितमः सर्गः – अतिकायवधः

72. द्विसप्ततितमः सर्गः – रावणमन्युशल्याविष्कारः

73. त्रिसप्ततितमः सर्गः – इन्द्रजिन्मायायुद्धम्

74. चतुः सप्ततितमः सर्गः – ओषधिपर्वतानयनम्

75. पञ्चसप्ततितमः सर्गः – लङ्कादाहः

76. षट्सप्ततितमः सर्गः – कम्पनादिवधः

77. सप्तसप्ततितमः सर्गः – निकुम्भवधः

78. अष्टसप्ततितमः सर्गः – मकराक्षाभिषेणनम्

79. एकोनाशीतितमः सर्गः – मकराक्षवधः

80. अशीतितमः सर्गः – तिरोहितरावणियुद्धम्

81. एकाशीतितमः सर्गः – मायासीतावधः

82. द्वयशीतितमः सर्गः – हनूमदादिनिर्वेदः

83. त्र्यशीतितमः सर्गः – रामाश्वासनम्

84. चतुरशीतितमः सर्गः – इन्द्रजिन्मायाविवरणम्

85. पञ्चाशीतितमः सर्गः – निकुम्भिलाभियानम्

86. षडशीतितमः सर्गः – रावणिबलकदनम्

87. सप्ताशीतितमः सर्गः – विभीषणरावणिपरस्परनिन्दा

88. अष्टाशीतितमः सर्गः – सौमित्रिरावणियुद्धम्

89. एकोननवतितमः सर्गः – सौमित्रिसन्धुक्षणम्

90. नवतितमः सर्गः – सौमित्रिरावणियुद्धम्

91. एकनवतितमः सर्गः – रावणिवधः

92. द्विनवतितमः सर्गः – रावणिशस्त्रहतचिकित्सा

93. त्रिनवतितमः सर्गः – सीताहननोद्यमनिवृत्तिः

94. चतुर्नवतितमः सर्गः – गान्धर्वास्त्रमोहनम्

95. पञ्चनवतितमः सर्गः – राक्षसीविलापः

96. षण्णवतितमः सर्गः – रावणाभिषेणनम्

97. सप्तनवतितमः सर्गः – विरूपाक्षवधः

98. अष्टनवतितमः सर्गः – महोदरवधः

99. एकोनशततमः सर्गः – महापार्श्ववधः

100. शततमः सर्गः – रामरावणास्त्रपरम्परा

101. एकोत्तरशततमः सर्गः – लक्ष्मणशक्तिक्षेपः

102. द्वयुत्तरशततमः सर्गः – लक्ष्मणसञ्जीवनम्

103. त्रयुत्तरशततमः सर्गः – ऐन्द्ररथकेतुपातनम्

104. चतुरूत्तरशततमः सर्गः – रावणशूलभङ्गः

105. पञ्चोत्तरशततमः सर्गः – दशग्रीवविघूर्णनम्

106. षडुत्तरशततमः सर्गः – सारथिविज्ञेयम्

107. सप्तोत्तरशततमः सर्गः – आदित्यहृदयम्

108. अष्टोत्तरशततमः सर्गः – शुभाशुभनिमित्तदर्शनम्

109. नवोत्तरशततमः सर्गः – रावणध्वजोन्मथनम्

110. दशोत्तरशततमः सर्गः – रावणैकशतशिरश्छेदनम्

111. एकादशोत्तरशततमः सर्गः – पौलस्त्यवधः

112. द्वादशोत्तरशततमः सर्गः – विभीषणविलापः

113. त्रयोदशोत्तरशततमः सर्गः – रावणान्तःपुरपरिदेवनम्

114. चतुर्दशोत्तरशततमः सर्गः – मन्दोदरीविलापः

115. पञ्चदशोत्तरशततमः सर्गः – विभीषणाभिषेकः

116. षोडशोत्तरशततमः सर्गः – मैथिलीप्रियनिवेदनम्

117. सप्तदशोत्तरशततमः सर्गः – सीताभर्तृमुखोदीक्षणम्

118. अष्टादशोत्तरशततमः सर्गः – सीताप्रत्यादेशः

119. एकोनविंशत्युत्तरशततमः सर्गः – हुताशनप्रवेशः

120. विंशत्युत्तरशततमः सर्गः – ब्रह्मकृतरामस्तवः

121. एकविंशत्युत्तरशततमः सर्गः – सीताप्रतिग्रहः

122. द्वाविंशत्युत्तरशततमः सर्गः – दशरथप्रतिसमादेशः

123. त्रयोविंशत्युत्तरशततमः सर्गः – इन्द्रवरदानम्

124. चतुर्विंशत्युत्तरशततमः सर्गः – पुष्पकोपस्थापनम्

125. पञ्चविंशत्युत्तरशततमः सर्गः – पुष्पकोत्पतनम्

126. षड्विंशत्युत्तरशततमः सर्गः – प्रत्यावृत्तिपथवर्णनम्

127. सप्तविंशत्युत्तरशततमः सर्गः – भरद्वाजामन्त्रणम्

128. अष्टाविंशत्युत्तरशततमः सर्गः – भरतप्रियाख्यानम्

129. एकोनत्रिंशदुत्तरशततमः सर्गः – हनूमद्भरतसम्भाषणम्

130. त्रिंशदुत्तरशततमः सर्गः – भरतसमागमः

131. एकत्रिंशदुत्तरशततमः सर्गः – श्रीरामपट्‍टाभिषेकः