वाल्मीकि रामायणे अयोध्याकाण्ड - दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

॥ इक्ष्वाकुवंशकीर्तनम् ॥

क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह ।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ १ ॥

निवर्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २ ॥

सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ।
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ ३ ॥

असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः ।
आकाशप्रभवो ब्रह्मा शाश्वतो नित्याव्ययः ॥ ४ ॥

तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ॥ ५ ॥

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः ।
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ ६ ॥

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ ७ ॥

इक्ष्वाकोऽस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः ।
कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ ८ ॥

विकुक्षेस्तु महातेजाः बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ ९ ॥

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥ १० ॥

अनरण्यान्महाबाहुः पृथूराजा बभूव ह ।
तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ॥ ११ ॥

स सत्यवचनाद्वीरः सशरीरो दिवङ्गतः ।
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ॥ १२ ॥

धुन्धुमारो महातेजाः युवनाश्वो व्यजायत ।
युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ॥ १३ ॥

मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ १४ ॥

यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ।
भरतात्तु महाबाहोरसितो नाम जायत ॥ १५ ॥

यस्यैते प्रतिराजानो उदपद्यन्त शत्रवः ।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ १६ ॥

तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ १७ ॥

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ १८ ॥

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ १९ ॥

स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ॥ २० ॥

धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः ।
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ॥ २१ ॥

पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।
ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २२ ॥

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जातः स सगरोऽभवत् ॥ २३ ॥

स राजा सगरो नाम यः समुद्रमखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ २४ ॥

असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम् ।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २५ ॥

अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्यवान् ।
दिलीपोऽम्शुमतः पुत्रो दिलीपस्य भगीरथः ॥ २६ ॥

भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ।
ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥ २७ ॥

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपादः सौदासः इत्येवं प्रथितो भुवि ॥ २८ ॥

कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः ।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २९ ॥

शङ्खणस्य च पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः ।
सुदर्शनस्याग्निवर्णाग्निवर्णस्य शीघ्रगः ॥ ३० ॥

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।
प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ॥ ३१ ॥

अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः ।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ ३२ ॥

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ ३३ ॥

तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः ।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ ३४ ॥

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ ३५ ॥

स राघवाणां कुलधर्ममात्मनः
सनातनं नाद्य विहन्तुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीम्
प्रभूतराष्ट्रां पितृवन्महायशः ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥

<< 109. नवाधिकशततमः सर्गः – सत्यप्रशंसा 111. एकादशाधिकशततमः सर्गः – भरतानुशासनम् >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः