॥ कौसल्याप्रसादनम् ॥
एवं तु क्रुद्धया राजा राममात्रा सशोकया ।
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ १ ॥
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घेण कालेन सञ्ज्ञामाप परन्तपः ॥ २ ॥
स सञ्ज्ञामुपलभ्यैव दीर्घमुष्णं च निश्श्वसन् ।
कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥ ३ ॥
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यदनेन कृतं पूर्वमज्ञानाच्छब्द वेधिना ॥ ४ ॥
अमनास्तेन शोकेन रामशोकेन च प्रभुः ।
द्वाभ्यामपि महाराजः शोकाब्यामन्वतप्यत ॥ ५ ॥
दह्यमानः सशोकाभ्यां कौसल्यामाह भूपतिः ।
वेपमानोऽञ्जलिं कृत्वा प्रसादर्थमवाङ्मुखः ॥ ६ ॥
प्रसादये त्वां कौसल्ये रचितोऽयं मयाऽञ्जलिः ।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ ७ ॥
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा ।
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ ८ ॥
सा त्वं धर्मपरा नित्यं दृष्ट लोक परावर ।
नार्हसे विप्रियं वक्तुं दुःखिताऽपि सुदुःखितम् ॥ ९ ॥
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ॥ १० ॥
स मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् ।
सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ ११ ॥
प्रसीद शिरसा याचे भूमौ निततिताऽस्मि ते ।
याचिताऽस्मि हता देव हन्तव्याऽहं न हि त्वया ॥ १२ ॥
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोः लोकयोः वीर पत्याया सम्प्रसाद्यते ॥ १३ ॥
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ १४ ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं नास्ति शोकसमः रिपुः ॥ १५ ॥
शक्यमापतितः सोढुं प्रहरः रिपुहस्ततः ।
सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते ॥ १६ ॥
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते ।
यः शोकहतहर्षायाः पञ्चवर्षोपमः मम ॥ १७ ॥
तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते ।
नदीनामिव वेगेन समुद्रसलिलं महत् ॥ १९ ॥
एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः ।
मन्दरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत ॥ २० ॥
तथ प्रह्लादितः वाक्यैर्देव्या कौसल्यया नृपः । [प्रसादितो]
शोकेन च समाक्रान्तर्निद्राया वशमेयिवान् ॥ २१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥ ६२ ॥
<< 61. एकषष्टितमः सर्गः – कौसल्योपालम्भः 63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम् >>1. प्रथमः सर्गः – रामाभिषेकव्यवसायः
2. द्वितीयः सर्गः – परिषदनुमोदनम्
3. तृतीयः सर्गः – पुत्रानुशासनम्
4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः
5. पञ्चमः सर्गः – व्रतचर्याविधानम्
7. सप्तमः सर्गः – मन्थरापरिदेवनम्
9. नवमः सर्गः – रामप्रवासनोपायचिन्ता
11. एकादशः सर्गः – वरद्वयनिर्बन्धः
12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः
13. त्रयोदशः सर्गः – दशरथविलापः
14. चतुर्दशः सर्गः – कैकेय्युपालम्भः
15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्
16. षोडशः सर्गः – रामप्रस्थानम्
18. अष्टादशः सर्गः – वनवासनिदेशः
19. एकोनविंशः सर्गः – रामप्रतिज्ञा
20. विंशः सर्गः – कौसल्याक्रन्दः
21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्
22. द्वाविंशः सर्गः – दैवप्राबल्यम्
23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः
24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्
25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्
26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्
27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः
28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्
29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)
30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः
31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा
32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्
33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्
34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्
35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्
36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्
37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः
38. अष्टात्रिंशः सर्गः – जनाक्रोशः
39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा
40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या
41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः
42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः
43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्
44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्
45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्
46. षट्चत्वारिंशः सर्गः – पौरमोहनम्
47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः
48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः
49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः
50. पञ्चाशः सर्गः – गुहसङ्गतम्
51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्
52. द्विपञ्चाशः सर्गः – गङ्गातरणम्
53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः
54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्
55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्
56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः
57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्
58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्
59. एकोनषष्टितमः सर्गः – दशरथविलापः
60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्
61. एकषष्टितमः सर्गः – कौसल्योपालम्भः
62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्
63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्
64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः
65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः
66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्
67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्
68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्
69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः
70. सप्ततितमः सर्गः – भरतप्रस्थानम्
71. एकसप्ततितमः सर्गः – अयोध्यागमनम्
72. द्विसप्ततितमः सर्गः – भरतसन्तापः
73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्
74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः
75. पञ्चसप्ततितमः सर्गः – भरतशपथः
76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्
77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः
78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः
79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः
80. अशीतितमः सर्गः – मार्गसंस्कारः
81. एकाशीतितमः सर्गः – सभास्तानम्
82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्
83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्
84. चतुरशीतितमः सर्गः – गुहागमनम्
85. पञ्चाशीतितमः सर्गः – गुहसमागमः
86. षडशीतितमः सर्गः – गुहवाक्यम्
87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः
88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्
89. एकोननवतितमः सर्गः – गङ्गातरणम्
90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः
91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्
92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्
93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्
94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना
95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना
96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः
97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा
98. अष्टनवतितमः सर्गः – रामान्वेषणम्
99. एकोनशततमः सर्गः – रामसमागमः
100. शततमः सर्गः – कच्चित्सर्गः
101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्
102. द्व्यधिकशततमः सर्गः – निवापदानम्
103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्
104. चतुरधिकशततमः सर्गः – रामभरतसंवादः
105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्
106. षडधिकशततमः सर्गः – भरतवचनम्
107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्
108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्
109. नवाधिकशततमः सर्गः – सत्यप्रशंसा
110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्
111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्
112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्
113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्
114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः
115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः
116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्
117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा