वाल्मीकि रामायणे अयोध्याकाण्ड - द्वितीयः सर्गः – परिषदनुमोदनम्

॥ परिषदनुमोदनम् ॥

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ १ ॥

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना ।
स्वरेण महता राजा जीमूत इव नादयन् ॥ २ ॥

राजलक्षणयुक्तेन कान्तेनानुपमेन च ।
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ ३ ॥

विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥ ४ ॥

[* सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् । *]
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ।
मयाऽप्याचरितं पूर्वैः पन्थानमनुगच्छता ॥ ५ ॥

प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ।
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ॥ ६ ॥

पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया ।
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ॥ ७ ॥

जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ।
राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ॥ ८ ॥

परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ।
सोऽहं विश्रममिच्छामि रामं कृत्वा प्रजाहिते ॥ ९ ॥ [पुत्रं]

सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ।
अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ॥ १० ॥

पुरन्दरसमो वीर्ये रामः परपुरञ्जयः ।
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ॥ ११ ॥

यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ।
अनुरूपः स वै नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः ॥ १२ ॥

त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ।
अनेन श्रेयसा सद्यः सम्योक्ष्ये तामिमां महीम् ॥ १३ ॥ [सम्योज्यैवमिमां]

गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ।
यदीदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम् ॥ १४ ॥

भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ।
यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ॥ १५ ॥

अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ।
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ॥ १६ ॥

वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ।
स्निग्धोऽनुनादी सञ्जज्ञे तत्र हर्षसमीरितः ॥ १७ ॥

जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ।
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ॥ १८ ॥

ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ।
समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ॥ १९ ॥

ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ।
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ॥ २० ॥

स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ।
इच्छामो हि महाबाहुं रघुवीरं महाबलम् ॥ २१ ॥

गजेन महताऽऽयान्तं रामं छत्रावृताननम् ।
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ॥ २२ ॥

अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ।
श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ॥ २३ ॥

राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ।
कथं नु मयि धर्मेण पृथिवीमनुशासति ॥ २४ ॥

भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ।
ते तमूचुर्महात्मानं पौरजानपदैः सह ॥ २५ ॥

बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ।
गुणान्गुणवतो देव देवकल्पस्य धीमतः ॥ २६ ॥

प्रियानानन्दनान्कृत्स्नान्प्रवक्ष्यामोऽद्य तान् शृणु ।
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ॥ २७ ॥

इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते ।
रामः सत्पुरुषो लोके सत्यधर्मपरायणः ॥ २८ ॥

साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ।
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ॥ २९ ॥

बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ।
धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः ॥ ३० ॥

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ।
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ ३१ ॥

प्रियवादी च भूतानां सत्यवादी च राघवः ।
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३२ ॥

तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ।
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३३ ॥

सर्वविद्याव्रतस्नातो यथावत्साङ्गवेदवित् । [सम्यक्]
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३४ ॥

कल्याणाभिजनः साधुरदीनात्मा महामतिः ।
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थदर्शिभिः ॥ ३५ ॥ [नैपुणैः]

यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा ।
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३६ ॥

सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ।
पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ ३७ ॥

पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ ३८ ॥

शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः ।
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ ३९ ॥

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।
उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४० ॥

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ॥ ४१ ॥

सम्यग्योक्ता श्रेयसां च न विग्रहकथारुचिः । [विगृह्य]
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४२ ॥

सुभ्रूरायतताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ।
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४३ ॥

प्रजापालनसम्युक्तो न रागोपहतेन्द्रियः । [तत्त्वज्ञः]
शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ॥ ४४ ॥

नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ।
हन्त्येव नियमाद्वध्यानवध्ये न च कुप्यति ॥ ४५ ॥

युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ।
दान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् ॥ ४६ ॥ [शान्तैः]

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
तमेवं‍गुणसम्पन्नं रामं सत्यपराक्रमम् ॥ ४७ ॥

लोकपालोपमं नाथमकामयत मेदिनी ।
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ॥ ४८ ॥

दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ।
बलमारोग्यमायुश्च रामस्य विदितात्मनः ॥ ४९ ॥

देवासुरमनुष्येषु गन्धर्वेषूरगेषु च ।
आशंसन्ते जनः सर्वो राष्ट्रे पुरवरे तथा ॥ ५० ॥

आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ।
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ॥ ५१ ॥

सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ।
तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ॥ ५२ ॥

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ।
पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ५३ ॥

तं देवदेवोपममात्मजं ते
सर्वस्य लोकस्य हिते निविष्टम् ।
हिताय नः क्षिप्रमुदारजुष्टं
मुदाऽभिषेक्तुं वरद त्वमर्हसि ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीय सर्गः ॥ २ ॥

<< 1. प्रथमः सर्गः – रामाभिषेकव्यवसायः 3. तृतीयः सर्गः – पुत्रानुशासनम् >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः