वाल्मीकि रामायणे अयोध्याकाण्ड - सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

॥ सुमन्त्रोपावर्तनम् ॥

कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह ।
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ १ ॥

भरद्वाजाभिगमनं प्रयागे च सहासनम् ।
आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ २ ॥

अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् ।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ ३ ॥

स वनानि सुगन्धीनि सरितश्च सरांसि च ।
पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ ४ ॥

ततः सायाह्न समये तृतीयेऽहनि सारथिः ।
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ ५ ॥

स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः ।
सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ ६ ॥

कच्चिन्न सगजा साश्वा सजना सजनाधिपा ।
रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ ७ ॥

इति चिन्तापरः सूतः वाजिभिः श्रीघ्रपातिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ ८ ॥

सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः ।
क्व रामैति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ ९ ॥

तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् ।
अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ॥ १० ॥

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।
अहो धिगिति निश्वस्य हा रामेति च चुक्रुशुः ॥ ११ ॥

शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम् ।
हताः स्म खलु ये नेह पश्यामैति राघवम् ॥ १२ ॥

दानयज्ञविवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ १३ ॥

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।
इति रामेण नगरं पितृवत्परिपालितम् ॥ १४ ॥

वातायनगतानां च स्त्रीणामन्वन्तरापणम् ।
राम शोकाभितप्तानां शुश्राव परिदेवनम् ॥ १५ ॥

स राजमार्गमध्येन सुमन्त्रः पिहिताननः ।
यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ १६ ॥

सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।
कक्ष्याः सप्ताभिचक्राम महा जन समाकुलाः ॥ १७ ॥

हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥ १८ ॥

आयतैर्विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ १९ ॥

ततो दशरथ स्त्रीणां प्रासादेभ्यस्ततस्ततः ।
राम शोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ २० ॥

सह रामेण निर्यातः विना राममिहागतः ।
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ २१ ॥

यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ २२ ॥

सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् ।
प्रदीप्तमिव शोकेन विवेश सहसा गृहम् ॥ २३ ॥

स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् ।
पुत्र शोक परिद्यूनमपश्यत् पाण्डरे गृहे ॥ २४ ॥

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ।
सुमन्त्रः रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २५ ॥

स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः ।
मूर्छितो न्यपतद्भूमौ राम शोकाभिपीडितः ॥ २६ ॥

ततोऽन्तः पुरमाविद्धं मूर्छिते पृथिवीपतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २७ ॥

सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।
उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ २८ ॥

इमं तस्य महाभाग दूतं दुष्करकारिणः ।
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ २९ ॥

अद्येममनयं कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ ३० ॥

देव यस्या भयाद्रामं नातुपृच्छसि सारथिम् ।
नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ ३१ ॥

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।
धरण्यां निपपाताशु बाष्प विप्लुत भाषिणी ॥ ३२ ॥

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।
पतिं चावेक्ष्य ताः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ ३३ ॥

ततस्तमन्तः पुर नादमुत्थितम्
समीक्ष्य वृद्धास्तरुणाश्च मानवाः ।
स्त्रियश्च सर्वा रुरुदुः समन्ततः
पुरं तदासीत् पुनरेव सङ्कुलम् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

<< 56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः 58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम् >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः