वाल्मीकि रामायणे अयोध्याकाण्ड - पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

॥ मातृस्वस्त्ययनम् ॥

साऽपनीय तमायासमुपस्पृश्य जलं शुचिः ।
चकार माता रामस्य मङ्गलानि मनस्विनी ॥ १ ॥

न शक्यसे वारयितुं गच्छेदानीं रघूत्तम ।
शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ॥ २ ॥

यं पालयसि धर्मं त्वं धृत्या च नियमेन च ।
स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ ३ ॥

येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।
ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ४ ॥

यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ।
तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥ ५ ॥

पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा ।
सत्येन च महाबाहो चिरं जीवाभिरक्षितः ॥ ६ ॥

समित्कुशपवित्राणि वेद्यश्चायतनानि च ।
स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा ह्रदाः ॥ ७ ॥

पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम ।
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः ॥ ८ ॥

स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ।
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ॥ ९ ॥

ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः ।
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ॥ १० ॥

स्मृतिर्धृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ।
स्कन्दश्च भगवान्देवः सोमश्च सबृहस्पतिः ॥ ११ ॥

सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ।
ये चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः ॥ १२ ॥

स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः ।
शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥ १३ ॥

द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ।
नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः ॥ १४ ॥

अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ।
ऋतवश्चैव षट् पुण्या मासाः संवत्सरास्तथा ॥ १५ ॥

कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ।
महावने विचरतो मुनिवेषस्य धीमतः ॥ १६ ॥

तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा ।
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् ॥ १७ ॥

क्रव्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम् ।
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ॥ १८ ॥

सरीसृपाश्च कीटाश्च मा भूवन्गहने तव ।
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ॥ १९ ॥

महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ।
नृमांसभोजिनो रौद्रा ये चान्ये सत्त्वजातयः ॥ २० ॥

मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह ।
आगमास्ते शिवाः सन्तु सिद्ध्यन्तु च पराक्रमाः ॥ २१ ॥

सर्वसम्पत्तये राम स्वस्तिमान्गच्छ पुत्रक ।
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥ २२ ॥

सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ।
शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥ २३ ॥ [गुरुः]

पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ।
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखाच्च्युताः ॥ २४ ॥

उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ।
सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ॥ २५ ॥

ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् ।
इति माल्यैः सुरगणान्गन्धैश्चापि यशस्विनी ॥ २६ ॥

स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना । [अनुकूलाभिः]
ज्वलनं समुपादाय ब्राह्मणेन महात्मना ॥ २७ ॥

हावयामास विधिना राममङ्गलकारणात् ।
घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥ २८ ॥

उपसम्पादयामास कौसल्या परमाङ्गना ।
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् ॥ २९ ॥

हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ।
मधुदध्यक्षतघृतैः स्वस्तिवाच्य द्विजांस्ततः ॥ ३० ॥

वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ।
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ॥ ३१ ॥

दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ।
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ॥ ३२ ॥

वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ।
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा ॥ ३३ ॥

अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ।
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥ ३४ ॥

अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ।
त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः ॥ ३५ ॥

यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ।
ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते ॥ ३६ ॥

मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ।
इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी ॥ ३७ ॥

गन्धैश्चापि समालभ्य राममायतलोचना ।
ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ॥ ३८ ॥

चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ।
उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी ॥ ३९ ॥

वाङ्मात्रेण न भावेन वाचा संसज्जमानया ।
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ॥ ४० ॥

अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम् ।
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ॥ ४१ ॥

पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ।
प्रनष्टदुःखसङ्कल्पा हर्षविद्योतितानना ॥ ४२ ॥

द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ।
भद्रासनगतं राम वनवासादिहागतम् ॥ ४३ ॥ [भद्रं]

द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ।
मङ्गलैरुपसम्पन्नो वनवासादिहागतः ।
वध्वा मम च नित्यं त्वं कामान् संवर्ध याहि भो ॥ ४४ ॥

मयार्चिता देवगणाः शिवादयो
महर्षयो भूतमहासुरोरगाः ।
अभिप्रयातस्य वनं चिराय ते
हितानि काङ्क्षन्तु दिशश्च राघव ॥ ४५ ॥

इतीव चाश्रुप्रतिपूर्णलोचना
समाप्य च स्वस्त्ययनं यथाविधि ।
प्रदक्षिणं चैव चकार राघवं
पुनः पुनश्चापि निपीड्य सस्वजे ॥ ४६ ॥

तथा तु देव्या स कृतप्रदक्षिणो
निपीड्य मातुश्चरणौ पुनः पुनः ।
जगाम सीतानिलयं महायशाः
स राघवः प्रज्वलितः स्वया श्रिया ॥ ४७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥

<< 24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम् 26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम् >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः