॥ नारदवाक्यम् ॥
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १ ॥
कोऽन्वस्मिन्साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य सम्युगे ॥ ४ ॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ ६ ॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥ [बुद्ध्या]
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ ८ ॥
बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १० ॥
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ ११ ॥
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥ १२ ॥
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ १३ ॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १४ ॥
सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ १५ ॥
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥ १६ ॥
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १७ ॥
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १८ ॥
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥ १९ ॥
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥ २० ॥
यौवराज्येन सम्योक्तुमैच्छत्प्रीत्या महीपतिः ।
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी ॥ २१ ॥
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २२ ॥
स सत्यवचनाद्राजा धर्मपाशेन सम्यतः । [चैव]
विवासयामास सुतं रामं दशरथः प्रियम् ॥ २३ ॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ २४ ॥
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ २५ ॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ २६ ॥
जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥ २७ ॥
सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ २८ ॥
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ २९ ॥
गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ॥ ३० ॥
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ ३१ ॥
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् ।
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ॥ ३२ ॥
राजा दशरथः स्वर्गं जगाम विलपन्सुतम् ।
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ ३३ ॥
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥ ३४ ॥
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् । [स महा।]
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ॥ ३५ ॥
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥ ३६ ॥
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥ ३७ ॥
निवर्तयामास ततो भरतं भरताग्रजः ।
स काममनवाप्यैव रामपादावुपस्पृशन् ॥ ३८ ॥
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ।
गते तु भरते श्रीमान्सत्यसन्धो जितेन्द्रियः ॥ ३९ ॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान्प्रविवेश ह ॥ ४० ॥
प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ ४१ ॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥ ४२ ॥
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।
वसतस्तस्य रामस्य वने वनचरैः सह ॥ ४३ ॥
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ।
स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥ ४४ ॥
प्रतिज्ञातश्च रामेण वधः सम्यति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥ ४५ ॥
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ४६ ॥
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ ४७ ॥
निजघान रणे रामस्तेषां चैव पदानुगान् ।
वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥ ४८ ॥
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥ ४९ ॥
सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणः सुबहुशो मारीचेन स रावणः ॥ ५० ॥
न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ ५१ ॥
जगाम सहमारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ ५२ ॥
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ ५३ ॥
राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ ५४ ॥
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥ ५५ ॥
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
स चाऽऽस्य कथयामास शबरीं धर्मचारिणीम् ॥ ५६ ॥
श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ।
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ५७ ॥
शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥ ५८ ॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ ५९ ॥
आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥ ६० ॥
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
ततो वानरराजेन वैरानुकथनं प्रति ॥ ६१ ॥
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ ६२ ॥
वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ ६३ ॥
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवो महापर्वत सन्निभम् ॥ ६४ ॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ॥ ६५ ॥
बिभेद च पुनः सालान्सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥ ६६ ॥
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ६७ ॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥ ६८ ॥
अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ॥ ६९ ॥
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ७० ॥
स च सर्वान्समानीय वानरान्वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ७१ ॥
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ ७२ ॥
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ७३ ॥
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ७४ ॥
पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ७५ ॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ॥ ७६ ॥
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ ७७ ॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ७८ ॥
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ ७९ ॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ ८० ॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ ८१ ॥
तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ ८२ ॥
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः ॥ ८३ ॥
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ८४ ॥
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ ८५ ॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ ८६ ॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ॥ ८७ ॥
पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च सः ।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥ ८८ ॥
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ८९ ॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । [प्रहृष्टो]
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ ९० ॥
न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ९१ ॥
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ॥ ९२ ॥
न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ ९३ ॥
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥ ९४ ॥
गवां कोट्ययुतं दत्वा विद्वद्भ्यो विधिपूर्वकम् ।
असङ्ख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ॥ ९५ ॥
राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ ९६ ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥ ९७ ॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ९८ ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ ९९ ॥
पठन् द्विजो वागृषभत्वमीया-
-त्स्यात् क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीया-
-ज्जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ १०० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥ १ ॥
<< Bala Kanda - बालकाण्ड1. प्रथमः सर्गः – नारदवाक्यम्
2. द्वितीयः सर्गः – ब्रह्मागमनम्
3. तृतीयः सर्गः – काव्यसङ्क्षेपः
4. चतुर्थः सर्गः – अनुक्रमणिका
5. पञ्चमः सर्गः – अयोध्यावर्णना
7. सप्तमः सर्गः – अमात्यवर्णना
8. अष्टमः सर्गः – सुमन्त्रवाक्यम्
9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्
10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः
11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः
12. द्वादशः सर्गः – अश्वमेधसम्भारः
13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः
15. पञ्चदशः सर्गः – रावणवधोपायः
16. षोडशः सर्गः – पायसोत्पत्तिः
17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः
18. अष्टादशः सर्गः – श्रीरामाद्यवतारः
19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्
21. एकविंशः सर्गः – वसिष्ठवाक्यम्
22. द्वाविंशः सर्गः – विद्याप्रदानम्
23. त्रयोविंशः सर्गः – कामाश्रमवासः
24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः
25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः
27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्
28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्
29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः
30. त्रिंशः सर्गः – यज्ञरक्षणम्
31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्
32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्
33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः
34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्
35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः
36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्
37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः
38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म
39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्
40. चत्वारिंशः सर्गः – कपिलदर्शनम्
41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः
42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्
43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्
44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः
45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः
46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः
47. सप्तचत्वारिंशः सर्गः – विशालागमनम्
48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः
49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः
51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्
52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्
53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः
54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः
55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः
56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्
57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना
58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः
59. एकोनषष्टितमः सर्गः – वासिष्ठशापः
60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः
61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः
62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः
63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः
64. चतुःषष्टितमः सर्गः – रम्भाशापः
65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः
66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः
67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः
68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्
69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः
70. सप्ततितमः सर्गः – कन्यावरणम्
71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः
72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्
73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः
74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः
75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा