वाल्मीकि रामायणे बालकाण्ड - चत्वारिंशः सर्गः – कपिलदर्शनम्

॥ कपिलदर्शनम् ॥

देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।
प्रत्युवाच सुसन्त्रस्तान्कृतान्तबलमोहितान् ॥ १ ॥

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।
[* महिषी माधवस्यैषा स एष भगवान् प्रभुः । *]
कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ २ ॥

तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ॥ ३ ॥

सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ।
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम ॥ ४ ॥

देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।
सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ॥ ५ ॥

पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः ।
ततो भित्त्वा महीं कृत्स्नां कृत्वा चाभिप्रदक्षिणम् ॥ ६ ॥

सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ।
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ॥ ७ ॥

देवदानवरक्षांसि पिशाचोरगकिन्नराः । [पन्नगाः]
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च ॥ ८ ॥

किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ।
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ॥ ९ ॥

समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ।
भूयः खनत भद्रं वो निद्भिद्य वसुधातलम् ॥ १० ॥

अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।
पितुर्वचनमास्थाय सगरस्य महात्मनः ॥ ११ ॥

षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।
खन्यमाने ततस्तस्मिन्ददृशुः पर्वतोपमम् ॥ १२ ॥

दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ॥ १३ ॥

शिरसा धारयामास विरूपाक्षो महागजः ।
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ॥ १४ ॥

खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ।
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ॥ १५ ॥

मानयन्तो हि ते राम जग्मुर्भित्वा रसातलम् ।
ततः पूर्वां दिशं भित्वा दक्षिणां बिभिदुः पुनः ॥ १६ ॥

दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ।
महापद्मं महात्मानं सुमहापर्वतोपमम् ॥ १७ ॥

शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ।
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ॥ १८ ॥

षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।
पश्चिमायामपि दिशि महान्तमचलोपमम् ॥ १९ ॥

दिशागजं सौमनसं ददृशुस्ते महाबलाः ।
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ॥ २० ॥

खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ।
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् ॥ २१ ॥

भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ॥ २२ ॥

षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ॥ २३ ॥

रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः ।
ते तु सर्वे महत्मानो भिमवेगा महबलाः ॥ २४ ॥

ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।
हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २५ ॥

प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ।
ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ २६ ॥

खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।
अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ २७ ॥

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि ।
दुर्मेधस्त्वं हि सम्प्राप्तान्विद्धि नः सगरात्मजान् ॥ २८ ॥

श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन ।
रोषेण महताविष्टो हुङ्कारमकरोत्तदा ॥ २९ ॥

ततस्तेनाप्रमेयेण कपिलेन महात्मना ।
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥

<< 39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम् 41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः >>

1. प्रथमः सर्गः – नारदवाक्यम्

2. द्वितीयः सर्गः – ब्रह्मागमनम्

3. तृतीयः सर्गः – काव्यसङ्क्षेपः

4. चतुर्थः सर्गः – अनुक्रमणिका

5. पञ्चमः सर्गः – अयोध्यावर्णना

6. षष्ठः सर्गः – राजवर्णना

7. सप्तमः सर्गः – अमात्यवर्णना

8. अष्टमः सर्गः – सुमन्त्रवाक्यम्

9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्

10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः

11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः

12. द्वादशः सर्गः – अश्वमेधसम्भारः

13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः

14. चतुर्दशः सर्गः – अश्वमेधः

15. पञ्चदशः सर्गः – रावणवधोपायः

16. षोडशः सर्गः – पायसोत्पत्तिः

17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः

18. अष्टादशः सर्गः – श्रीरामाद्यवतारः

19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्

20. विंशः सर्गः – दशरथवाक्यम्

21. एकविंशः सर्गः – वसिष्ठवाक्यम्

22. द्वाविंशः सर्गः – विद्याप्रदानम्

23. त्रयोविंशः सर्गः – कामाश्रमवासः

24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः

25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः

26. षड्विंशः सर्गः – ताटकावधः

27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्

28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्

29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः

30. त्रिंशः सर्गः – यज्ञरक्षणम्

31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्

32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्

33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः

34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्

35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः

36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्

37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः

38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म

39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्

40. चत्वारिंशः सर्गः – कपिलदर्शनम्

41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः

42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्

43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्

44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः

45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः

46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः

47. सप्तचत्वारिंशः सर्गः – विशालागमनम्

48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः

49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः

50. पञ्चाशः सर्गः – जनकसमागमः

51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्

52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्

53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः

54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः

55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः

56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्

57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना

58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः

59. एकोनषष्टितमः सर्गः – वासिष्ठशापः

60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः

61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः

62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः

63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः

64. चतुःषष्टितमः सर्गः – रम्भाशापः

65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः

66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः

67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः

68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्

69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः

70. सप्ततितमः सर्गः – कन्यावरणम्

71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः

72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्

73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः

74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः

75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा

76. षट्सप्ततितमः सर्गः – जामदग्न्यप्रतिष्टम्भः

77. सप्तसप्ततितमः सर्गः – अयोध्याप्रवेशः