॥ श्रीरामाद्यवतारः ॥
निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः ।
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥
समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ २ ॥
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुङ्गवम् ॥ ३ ॥
श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥
गतेषु पृथिवीशेषु राजा दशरथस्तदा ।
प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान् ॥ ५ ॥
शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः ।
अन्वीयमानो राज्ञाऽथ सानुयात्रेण धीमता ॥ ६ ॥
एवं विसृज्य तान्सर्वान्राजा सम्पूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥
ततो यज्ञे समाप्ते तु ऋतूनां षट्समत्ययुः ।
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
कौसल्याऽजनयद्रामं दिव्यलक्षणसम्युतम् ॥ १० ॥
विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुवर्धनम् ।
[* लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् । *]
कौसल्या शुशुभे तेन पुत्रेणामित तेजसा ॥ ११ ॥
यथा वरेण देवानामदितिर्वज्रपाणिना ।
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ॥ १२ ॥
साक्षाद्विष्णोश्चतुर्थभागः सर्वैः समुदितो गुणैः ।
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ ॥ १३ ॥
सर्वास्त्रकुशलौ वीरौ विष्णोरर्धसमन्वितौ ।
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ॥ १४ ॥
सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ।
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ॥ १५ ॥
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ।
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ १६ ॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।
उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ १७ ॥
रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुलाः ।
गायनैश्च विराविण्यो वादकैश्च तथाइः ॥ १८ ॥
[* विरेजुर्विपुलास्तत्र सर्व रत्न समन्विताः । *]
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ १९ ॥
अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ।
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ २० ॥
सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।
वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ २१ ॥
ब्राह्मणान्भोजयामास पौरजानपदानपि ।
अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ २२ ॥
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ २३ ॥
बभूव भूयो भूतानां स्वयम्भूरिव संमतः ।
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ २४ ॥
सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः ।
तेषामपि महातेजा रामः सत्यपराक्रमः ॥ २५ ॥
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।
गजस्कन्धेऽश्वपृष्टे च रथचर्यासु संमतः ॥ २६ ॥
धनुर्वेदे च निरतः पितृशुश्रूषणे रतः ।
बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ २७ ॥
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ २८ ॥
लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः ।
न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ २९ ॥
मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।
यदा हि हयमारूढो मृगयां याति राघवः ॥ ३० ॥
तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥ ३१ ॥
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ।
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ ३२ ॥
बभूव परमप्रीतो वेदैरिव पितामहः ।
ते यदा ज्ञानसम्पन्नाः सर्वे समुदिता गुणैः ॥ ३३ ॥
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।
तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम् ॥ ३४ ॥
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ ३५ ॥
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ।
अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ ३६ ॥
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ ३७ ॥
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ।
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥ ३८ ॥
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ।
तच्छ्रुत्वा वचनं त्रासाद्राज्ञो वेश्म प्रदुद्रुवुः ॥ ३९ ॥
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ ४० ॥
प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा ।
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥ ४१ ॥
प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासवः ।
तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥ ४२ ॥
प्रहृष्टवदनो राजा ततोऽर्घ्यं समुपाहरत् ।
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ ४३ ॥
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ ४४ ॥
कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः ।
अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः ॥ ४५ ॥
दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ।
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥ ४६ ॥
ऋषींश्चान्यान्यथान्यायं महाभागानुवाच ह ।
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥ ४७ ॥
विविशुः पूजितास्तत्र निषेदुश्च यथार्हतः ।
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ ४८ ॥
उवाच परमोदारो हृष्टस्तमभिपूजयन् ।
यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥ ४९ ॥
यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै ।
प्रनष्टस्य यथा लाभो यथा हर्षो महोदये ॥ ५० ॥
तथैवागमनं मन्ये स्वागतं ते महामुने ।
कं च ते परमं कामं करोमि किमु हर्षितः ॥ ५१ ॥
पात्रभूतोऽसि मे ब्रह्मन्दिष्ट्या प्राप्तोऽसि धार्मिक ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ५२ ॥
[* यस्माद्विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम । *]
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ॥ ५३ ॥
तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम ।
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो ॥ ५४ ॥
ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।
इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥ ५५ ॥
कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक ।
कर्ता चाहमशेषेण दैवतं हि भवान्मम ॥ ५६ ॥
मम चायमनुप्राप्तो महानभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ ५७ ॥
इति हृदयसुखं निशम्य वाक्यं
श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टः
परम ऋषिः परमं जगाम हर्षम् ॥ ५८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः सर्गः ॥ १८ ॥
<< 17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः 19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम् >>2. द्वितीयः सर्गः – ब्रह्मागमनम्
3. तृतीयः सर्गः – काव्यसङ्क्षेपः
4. चतुर्थः सर्गः – अनुक्रमणिका
5. पञ्चमः सर्गः – अयोध्यावर्णना
7. सप्तमः सर्गः – अमात्यवर्णना
8. अष्टमः सर्गः – सुमन्त्रवाक्यम्
9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्
10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः
11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः
12. द्वादशः सर्गः – अश्वमेधसम्भारः
13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः
15. पञ्चदशः सर्गः – रावणवधोपायः
16. षोडशः सर्गः – पायसोत्पत्तिः
17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः
18. अष्टादशः सर्गः – श्रीरामाद्यवतारः
19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्
21. एकविंशः सर्गः – वसिष्ठवाक्यम्
22. द्वाविंशः सर्गः – विद्याप्रदानम्
23. त्रयोविंशः सर्गः – कामाश्रमवासः
24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः
25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः
27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्
28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्
29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः
30. त्रिंशः सर्गः – यज्ञरक्षणम्
31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्
32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्
33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः
34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्
35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः
36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्
37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः
38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म
39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्
40. चत्वारिंशः सर्गः – कपिलदर्शनम्
41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः
42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्
43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्
44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः
45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः
46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः
47. सप्तचत्वारिंशः सर्गः – विशालागमनम्
48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः
49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः
51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्
52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्
53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः
54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः
55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः
56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्
57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना
58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः
59. एकोनषष्टितमः सर्गः – वासिष्ठशापः
60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः
61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः
62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः
63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः
64. चतुःषष्टितमः सर्गः – रम्भाशापः
65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः
66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः
67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः
68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्
69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः
70. सप्ततितमः सर्गः – कन्यावरणम्
71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः
72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्
73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः
74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः
75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा