वाल्मीकि रामायणे बालकाण्ड - एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः

॥ अहल्याशापमोक्षः ॥

अफलस्तु ततः शक्रो देवानग्निपुरोगमन् ।
अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान् ॥ १ ॥

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २ ॥

अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता ।
शापमोक्षेण महता तपोस्यापहृतं मया ॥ ३ ॥

तस्मात्सुरवराः सर्वे सर्षिसङ्घाः सचारणाः ।
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ ४ ॥

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः ।
पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ॥ ५ ॥

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत ॥ ६ ॥

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।
भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ॥ ७ ॥

अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ।
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ॥ ८ ॥

उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ।
तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः ॥ ९ ॥

अफलान्भुञ्जते मेषान्फलैस्तेषामयोजयन् ।
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव ॥ १० ॥

गौतमस्य प्रभावेन तपसश्च महात्मनः ।
तदागच्छ महातेज आश्रमं पुण्यकर्मणः ॥ ११ ॥

तारयैनां महाभागामहल्यां देवरूपिणीम् ।
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ॥ १२ ॥

विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ।
ददर्श च महाभागां तपसा द्योतितप्रभाम् ॥ १३ ॥

लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ।
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ॥ १४ ॥

स तुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ।
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥ १५ ॥

धूमेनापि परीताङ्गीं दीप्तामग्निशिखामिव ।
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥ १६ ॥

त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् ।
शापस्यान्तमुपागम्य तेषां दर्शनमागता ॥ १७ ॥

राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ १८ ॥

पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता ।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १९ ॥

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः ।
गन्धर्वाप्सरसां चैव महानासीत्समागमः ॥ २० ॥

साधु साध्विति देवास्तामहल्यां समपूजयन् ।
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ २१ ॥

गौतमोऽपि महातेजा अहल्यासहितः सुखी । [हि]
रामं सम्पूज्य विधिवत्तपस्तेपे महातपाः ॥ २२ ॥

रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥

<< 48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः 50. पञ्चाशः सर्गः – जनकसमागमः >>

1. प्रथमः सर्गः – नारदवाक्यम्

2. द्वितीयः सर्गः – ब्रह्मागमनम्

3. तृतीयः सर्गः – काव्यसङ्क्षेपः

4. चतुर्थः सर्गः – अनुक्रमणिका

5. पञ्चमः सर्गः – अयोध्यावर्णना

6. षष्ठः सर्गः – राजवर्णना

7. सप्तमः सर्गः – अमात्यवर्णना

8. अष्टमः सर्गः – सुमन्त्रवाक्यम्

9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्

10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः

11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः

12. द्वादशः सर्गः – अश्वमेधसम्भारः

13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः

14. चतुर्दशः सर्गः – अश्वमेधः

15. पञ्चदशः सर्गः – रावणवधोपायः

16. षोडशः सर्गः – पायसोत्पत्तिः

17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः

18. अष्टादशः सर्गः – श्रीरामाद्यवतारः

19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्

20. विंशः सर्गः – दशरथवाक्यम्

21. एकविंशः सर्गः – वसिष्ठवाक्यम्

22. द्वाविंशः सर्गः – विद्याप्रदानम्

23. त्रयोविंशः सर्गः – कामाश्रमवासः

24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः

25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः

26. षड्विंशः सर्गः – ताटकावधः

27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्

28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्

29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः

30. त्रिंशः सर्गः – यज्ञरक्षणम्

31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्

32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्

33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः

34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्

35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः

36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्

37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः

38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म

39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्

40. चत्वारिंशः सर्गः – कपिलदर्शनम्

41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः

42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्

43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्

44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः

45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः

46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः

47. सप्तचत्वारिंशः सर्गः – विशालागमनम्

48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः

49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः

50. पञ्चाशः सर्गः – जनकसमागमः

51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्

52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्

53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः

54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः

55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः

56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्

57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना

58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः

59. एकोनषष्टितमः सर्गः – वासिष्ठशापः

60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः

61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः

62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः

63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः

64. चतुःषष्टितमः सर्गः – रम्भाशापः

65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः

66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः

67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः

68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्

69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः

70. सप्ततितमः सर्गः – कन्यावरणम्

71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः

72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्

73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः

74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः

75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा

76. षट्सप्ततितमः सर्गः – जामदग्न्यप्रतिष्टम्भः

77. सप्तसप्ततितमः सर्गः – अयोध्याप्रवेशः