वाल्मीकि रामायणे बालकाण्ड - चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः

॥ पप्लवादिसृष्टिः ॥

कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ १ ॥

नीयमाना तु शबला राम राज्ञा महात्मना ।
दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ २ ॥

परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
याऽहं राजभटैर्दीना ह्रियेय भृशदुःखिता ॥ ३ ॥

किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः ।
यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ ४ ॥

इति सा चिन्तयित्वा तु विनिःश्वस्य पुनः पुनः ।
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन ॥ ५ ॥

जगामानिलवेगेन पादमूलं महात्मनः ।
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ॥ ६ ॥

वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिरावणी । [रुदन्ती मेघनिःस्वना]
भगवन्किं परित्यक्ता त्वयाऽहं ब्रह्मणः सुत ॥ ७ ॥

यस्माद्राजभटा मां हि नयन्ते त्वत्सकाशतः ।
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ॥ ८ ॥

शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ।
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ॥ ९ ॥

एष त्वां नयते राजा बलान्मत्तो महाबलः ।
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ॥ १० ॥

बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ।
इयमक्षौहिणी पूर्णा सवाजिरथासङ्कुला ॥ ११ ॥

हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ।
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ॥ १२ ॥

वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम् ।
न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः ॥ १३ ॥

ब्रह्मन्ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ।
अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ॥ १४ ॥

विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ।
नियुङ्क्ष्व मां महातेज त्वद्ब्रह्मबलसम्भृताम् ॥ १५ ॥

तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ।
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ॥ १६ ॥

सृजस्वेति तदोवाच बलं परबलारुजम् ।
तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ॥ १७ ॥

तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप ।
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ १८ ॥

बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।
स राजा परमक्रुद्धो रोषविस्फारितेक्षणः ॥ १९ ॥ [क्रोध]

पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ।
विश्वामित्रार्दितान्दृष्ट्वा पप्लवान् शतशस्तदा ॥ २० ॥

भूय एवासृजत्कोपाच्छकान्यवनमिश्रितान् ।
तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः ॥ २१ ॥

प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः ।
दीर्घासिपट्‍टिशधरैर्हेमवर्णाम्बरावृतैः ॥ २२ ॥

निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ।
ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।
तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥

<< 53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः 55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः >>

1. प्रथमः सर्गः – नारदवाक्यम्

2. द्वितीयः सर्गः – ब्रह्मागमनम्

3. तृतीयः सर्गः – काव्यसङ्क्षेपः

4. चतुर्थः सर्गः – अनुक्रमणिका

5. पञ्चमः सर्गः – अयोध्यावर्णना

6. षष्ठः सर्गः – राजवर्णना

7. सप्तमः सर्गः – अमात्यवर्णना

8. अष्टमः सर्गः – सुमन्त्रवाक्यम्

9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्

10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः

11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः

12. द्वादशः सर्गः – अश्वमेधसम्भारः

13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः

14. चतुर्दशः सर्गः – अश्वमेधः

15. पञ्चदशः सर्गः – रावणवधोपायः

16. षोडशः सर्गः – पायसोत्पत्तिः

17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः

18. अष्टादशः सर्गः – श्रीरामाद्यवतारः

19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्

20. विंशः सर्गः – दशरथवाक्यम्

21. एकविंशः सर्गः – वसिष्ठवाक्यम्

22. द्वाविंशः सर्गः – विद्याप्रदानम्

23. त्रयोविंशः सर्गः – कामाश्रमवासः

24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः

25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः

26. षड्विंशः सर्गः – ताटकावधः

27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्

28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्

29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः

30. त्रिंशः सर्गः – यज्ञरक्षणम्

31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्

32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्

33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः

34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्

35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः

36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्

37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः

38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म

39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्

40. चत्वारिंशः सर्गः – कपिलदर्शनम्

41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः

42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्

43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्

44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः

45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः

46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः

47. सप्तचत्वारिंशः सर्गः – विशालागमनम्

48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः

49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः

50. पञ्चाशः सर्गः – जनकसमागमः

51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्

52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्

53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः

54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः

55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः

56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्

57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना

58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः

59. एकोनषष्टितमः सर्गः – वासिष्ठशापः

60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः

61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः

62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः

63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः

64. चतुःषष्टितमः सर्गः – रम्भाशापः

65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः

66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः

67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः

68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्

69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः

70. सप्ततितमः सर्गः – कन्यावरणम्

71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः

72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्

73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः

74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः

75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा

76. षट्सप्ततितमः सर्गः – जामदग्न्यप्रतिष्टम्भः

77. सप्तसप्ततितमः सर्गः – अयोध्याप्रवेशः