॥ वैष्णवधनुःप्रशंसा ॥
राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम् । [वीर]
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।
तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥ २ ॥
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः ।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥ ३ ॥
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।
द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमहं तव ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।
विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ५ ॥
क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।
बालानां मम पुत्राणामभयं दातुमर्हसि ॥ ६ ॥
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ ७ ॥
स त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम् ।
दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८ ॥
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने ।
न चैकस्मिन्हते रामे सर्वे जीवामहे वयम् ॥ ९ ॥
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।
अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ १० ॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ ११ ॥
अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे ।
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ १२ ॥
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः ।
तदिदं वैष्णवं राम धनुः परपुरञ्जयम् ॥ १३ ॥
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ।
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥ १४ ॥
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ।
अभिप्रायं तु विज्ञाय देवतानां पितामहः ॥ १५ ॥
विरोधं जनयामास तयोः सत्यवतां वरः ।
विरोधे च महद्युद्धमभवद्रोमहर्षणम् ॥ १६ ॥
शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः ।
तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् ॥ १७ ॥
हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ।
देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ॥ १८ ॥
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ।
जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ॥ १९ ॥
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ।
धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः ॥ २० ॥
देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ।
इदं च वैष्णवं राम धनुः परपुरञ्जयम् ॥ २१ ॥
ऋचीके भार्गवे प्रादाद्विष्णुः सन्न्यासमुत्तमम् ।
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ॥ २२ ॥
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ।
न्यस्तशस्त्रे पितरि मे तपोबल समन्विते ॥ २३ ॥
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ।
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् ॥ २४ ॥
क्षत्रमुत्सादयन्रोषाज्जातं जातमनेकशः ।
पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ॥ २५ ॥
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ।
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ॥ २६ ॥
स्थितोऽस्मि तस्मिंस्तप्यन्वै सुसुखं सुरसेविते ।
अद्य तूत्तमवीर्येण त्वया राम महाबल ॥ २७ ॥
श्रुत्वातु धनुषो भेदं ततोऽहं द्रुतमागतः ।
तदिदं वैष्णवं राम पितृपैतामहं महत् ॥ २८ ॥
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ।
योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम् ।
यदि शक्नोसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥ २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
<< 74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः 76. षट्सप्ततितमः सर्गः – जामदग्न्यप्रतिष्टम्भः >>2. द्वितीयः सर्गः – ब्रह्मागमनम्
3. तृतीयः सर्गः – काव्यसङ्क्षेपः
4. चतुर्थः सर्गः – अनुक्रमणिका
5. पञ्चमः सर्गः – अयोध्यावर्णना
7. सप्तमः सर्गः – अमात्यवर्णना
8. अष्टमः सर्गः – सुमन्त्रवाक्यम्
9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्
10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः
11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः
12. द्वादशः सर्गः – अश्वमेधसम्भारः
13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः
15. पञ्चदशः सर्गः – रावणवधोपायः
16. षोडशः सर्गः – पायसोत्पत्तिः
17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः
18. अष्टादशः सर्गः – श्रीरामाद्यवतारः
19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्
21. एकविंशः सर्गः – वसिष्ठवाक्यम्
22. द्वाविंशः सर्गः – विद्याप्रदानम्
23. त्रयोविंशः सर्गः – कामाश्रमवासः
24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः
25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः
27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्
28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्
29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः
30. त्रिंशः सर्गः – यज्ञरक्षणम्
31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्
32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्
33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः
34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्
35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः
36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्
37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः
38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म
39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्
40. चत्वारिंशः सर्गः – कपिलदर्शनम्
41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः
42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्
43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्
44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः
45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः
46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः
47. सप्तचत्वारिंशः सर्गः – विशालागमनम्
48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः
49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः
51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्
52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्
53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः
54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः
55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः
56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्
57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना
58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः
59. एकोनषष्टितमः सर्गः – वासिष्ठशापः
60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः
61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः
62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः
63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः
64. चतुःषष्टितमः सर्गः – रम्भाशापः
65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः
66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः
67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः
68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्
69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः
70. सप्ततितमः सर्गः – कन्यावरणम्
71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः
72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्
73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः
74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः
75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा