वाल्मीकि रामायणे किष्किन्धकाण्ड - द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

॥ सुग्रीवप्रत्ययदानम् ॥

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ १ ॥

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।
सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ॥ २ ॥

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः ।
भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ॥ ३ ॥

प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः ।
निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥ ४ ॥

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः ।
रामस्य शरवेगेन विस्मयं परमं गतः ॥ ५ ॥

स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥ ६ ॥

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥ ७ ॥

सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ ।
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८ ॥

येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ९ ॥

अद्य मे विगतः शोकः प्रीतिरद्यः परा मम ।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १० ॥

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११ ॥

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ १२ ॥

अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ १३ ॥

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ १४ ॥

सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् ।
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥

ननाद सुमहानादं पूरयन्वै नभः स्थलम् ।
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ॥ १६ ॥

निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ।
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ॥ १७ ॥

गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ।
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ॥ १८ ॥

जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ।
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ॥ १९ ॥

अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ।
यन्नावगच्छत् सुग्रीवं वालिनं वाऽपि राघवः ॥ २० ॥

ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ।
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ॥ २१ ॥

अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ।
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः ॥ २२ ॥

वालिनाऽभिद्रुतः क्रोधात् प्रविवेश महावनम् ।
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः ॥ २३ ॥

मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ।
राघवोऽपि सह भ्रात्रा सह चैव हनूमता ॥ २४ ॥

तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ।
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ॥ २५ ॥

ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ।
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ॥ २६ ॥

वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ।
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ॥ २७ ॥

वालिनं न निहन्मीति ततो नाहमितो व्रजे ।
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ॥ २८ ॥

करुणं दीनया वाचा राघवः पुनरब्रवीत् ।
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् ॥ २९ ॥

कारणं येन बाणोऽयं न मया स विसर्जितः ।
अलङ्कारेण वेषेण प्रमाणेन गतेन च ॥ ३० ॥

त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ।
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ॥ ३१ ॥

विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ।
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ३२ ॥

नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ।
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः ॥ ३३ ॥

मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ।
त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया ॥ ३४ ॥

मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ।
दत्ताभयवधो नाम पातकं महदुच्यते ॥ ३५ ॥

अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ।
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् ॥ ३६ ॥

तस्माद्युध्यस्व भूयस्त्वं निश्शङ्को वानरेश्वर ।
अस्मिन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ॥ ३७ ॥

निरस्तमिषुणैकेन वेष्टमानं महीतले ।
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ॥ ३८ ॥

येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ।
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ॥ ३९ ॥

कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ।
ततो गरितटे जातामुत्पाट्य कुसुमाकुलाम् ॥ ४० ॥

लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ।
स तया शुशुभे श्रीमान् लतया कण्ठसक्तया ॥ ४१ ॥

मालयेव बलाकानां ससन्ध्य इव तोयदः ।
विभ्राजमानो वपुषा रामवाक्यसमाहितः ।
जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥ १२ ॥

<< 11. एकादशः सर्गः – वालिबलाविष्करणम् 13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः