वाल्मीकि रामायणे किष्किन्धकाण्ड - एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

॥ स्वयम्प्रभातिथ्यम् ॥

इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् ।
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ २ ॥

महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ३ ॥

दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ ४ ॥

शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ५ ॥

तपनीयगवाक्षणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः ॥ ६ ॥

इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।
काञ्चनानि च पद्मानि जातानि विमले जले ॥ ७ ॥

कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः ।
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ ८ ॥

अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ।
एवमुक्ता हनुमता तापसी धर्मचारिणी ॥ ९ ॥

प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ।
मयो नाम महातेजा मायावी दानवर्षभः ॥ १० ॥

तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ।
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ॥ ११ ॥

येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ॥ १२ ॥

पितामहाद्वरं लेभे सर्वमौशनसं धनम् ।
वनं विधाय बलवान् सर्वकामेश्वरस्तदा ॥ १३ ॥

उवास सुखितः कालं कञ्चिदस्मिन् महावने ।
तमप्सरसि हेमायां शक्तं दानवपुङ्गवम् ॥ १४ ॥

विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः ।
इदं च ब्रह्माणा दत्तं हेमायै वनमुत्तमम् ॥ १५ ॥

शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् ।
दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा ॥ १६ ॥

इदं रक्षामि भवनं हेमाया वानरोत्तम ।
मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ १७ ॥

तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ।
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ ।
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥ १८ ॥

इमान्यभ्यवहार्याणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥

<< 50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः 52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम् >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः