॥ अङ्गदाभिवादनम् ॥
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।
पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ॥ १ ॥
शेषे त्वं विषमे दुःखमनुक्त्वा वचनं मम ।
उपलोपचिते वीर सुदुःखे वसुधातले ॥ २ ॥
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ।
शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ३ ॥
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ।
सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥ ४ ॥
ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते ।
एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ॥ ५ ॥
मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ।
इदं तद्वीरशयनं यत्र शेषे हतो युधि ॥ ६ ॥
शायिता निहता यत्र त्वयैव रिपवः पुरा ।
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ॥ ७ ॥
मामनाथां विहायैकां गतस्त्वमसि मानद ।
शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥ ८ ॥
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ।
अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥ ९ ॥
अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ।
अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥ १० ॥
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ।
सुहृच्चैव हि भर्ता च प्रकृत्या मम च प्रियः ॥ ११ ॥
आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ।
पतिहीना तु या नारी कामं भवतु पुत्रिणी ॥ १२ ॥
धनधान्यैः सुपूर्णापि विधवेत्युच्यते जनैः ।
स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ॥ १३ ॥
कृमिरागपरिस्तोमे त्वमात्मशयने यथा ।
रेणुशोणितसंवीतं गात्रं तव समन्ततः ॥ १४ ॥
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ।
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे ॥ १५ ॥
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ।
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ॥ १६ ॥
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ।
उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ॥ १७ ॥
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ।
तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥ १८ ॥
अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ।
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ॥ १९ ॥
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् ।
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ॥ २० ॥
आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ।
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥ २१ ॥
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ।
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ॥ २२ ॥
सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ।
बालसूर्योदयतनुं प्रयान्तं यमसादनम् ॥ २३ ॥
अभिवादय राजानं पितरं पुत्र मानदम् ।
एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ॥ २४ ॥
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ।
अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ॥ २५ ॥
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ।
अहं पुत्रसहाया त्वामुपासे गतचेतनम् ॥ २६ ॥
सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ।
इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि ॥ २७ ॥
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ।
या दत्ता देवराजेन तव तुष्टेन सम्युगे ॥ २८ ॥
शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ।
राजश्रीर्न जहाति त्वां गतासुमपि मानद ।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ २९ ॥
न मे वचः पथ्यमिदं त्वया कृतं
न चास्मि शक्ता विनिवारणे तव ।
हता सपुत्राऽस्मि हतेन सम्युगे
सह त्वया श्रीर्विजहाति मामिह ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥
<< 22. द्वाविंशः सर्गः – वाल्यनुशासनम् 24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम् >>1. प्रथमः सर्गः – रामविप्रलम्भावेशः
2. द्वितीयः सर्गः – सुग्रीवमन्त्रः
3. तृतीयः सर्गः – हनूमत्प्रेषणम्
4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्
5. पञ्चमः सर्गः – सुग्रीवसख्यम्
6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्
7. सप्तमः सर्गः – रामसमाश्वासनम्
8. अष्टमः सर्गः – वालिवधप्रतिज्ञा
9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः
10. दशमः सर्गः – राज्यनिर्वासकथनम्
11. एकादशः सर्गः – वालिबलाविष्करणम्
12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्
13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः
14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्
15. पञ्चदशः सर्गः – ताराहितोक्तिः
17. सप्तदशः सर्गः – रामाधिक्षेपः
18. अष्टादशः सर्गः – वालिवधसमर्थनम्
19. एकोनविंशः सर्गः – तारागमनम्
21. एकविंशः सर्गः – हनुमदाश्वासनम्
22. द्वाविंशः सर्गः – वाल्यनुशासनम्
23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्
24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्
25. पञ्चविंशः सर्गः – वालिसंस्कारः
26. षड्विंशः सर्गः – सुग्रीवाभिषेकः
27. सप्तविंशः सर्गः – माल्यवन्निवासः
28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्
29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्
30. त्रिंशः सर्गः – शरद्वर्णनम्
31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः
32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः
33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्
34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्
35. पञ्चत्रिंशः सर्गः – तारासमाधानम्
36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः
37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्
38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्
39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः
40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्
41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्
42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्
43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्
44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः
45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा
46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्
47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्
48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः
49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः
50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः
51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्
52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्
53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः
54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्
55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः
56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः
57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्
58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः
59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः
60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्
61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्
62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्
63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः
64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्
65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्