॥ हनूमद्बलसन्धुक्षणम् ॥
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥
वीर वानरलोकस्य सर्वशास्त्रविशारद ।
तूष्णीमेकान्तमाश्रित्य हनुमान् किं न जल्पसि ॥ २ ॥
हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ३ ॥
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ॥ ४ ॥
बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजगानुद्धरन् पक्षी महावेगो महायशाः ॥ ५ ॥
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।
विक्रमश्चापि वेगश्च न ते तेनावहीयते ॥ ६ ॥
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव ।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७ ॥
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ ८ ॥
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।
अभिशापादभूत्तात वानरी कामरूपिणी ॥ ९ ॥
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।
कपित्वे चारुसर्वाङ्गी कदाचित् कामरूपिणी ॥ १० ॥
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ।
विचित्रमाल्याभरणा महार्हक्षौमवासिनी ॥ ११ ॥
अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ।
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ॥ १२ ॥
स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ।
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ॥ १३ ॥
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ।
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ॥ १४ ॥
दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ।
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ॥ १५ ॥
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ।
सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्यमब्रवीत् ॥ १६ ॥
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ।
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ॥ १७ ॥
न त्वां हिंसामि सुश्रोणि माऽभूत्ते सुभगे भयम् ।
मारुतोऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ॥ १८ ॥
वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति ।
महासत्त्वो महातेजा महाबलपराक्रमः ॥ १९ ॥
लङ्घने प्लवने चैव भविष्यति मया समः ।
एवमुक्ता ततस्तुष्टा जननी ते महाकपे ॥ २० ॥
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् ।
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ॥ २१ ॥
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ।
शतनि त्रीणि गत्वाऽथ योजनानां महाकपे ॥ २२ ॥
तेजसा तस्य निर्धूतो न विषादं गतस्ततः ।
तावदापततस्तूर्णमन्तरिक्षं महाकपे ॥ २३ ॥
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ।
तदा शैलाग्रशिखरे वामो हनुरभज्यत ॥ २४ ॥
ततो हि नामधेयं ते हनुमानिति कीर्त्यते ।
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ॥ २५ ॥
त्रैलोक्ये भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः ।
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति ॥ २६ ॥
प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः ।
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ॥ २७ ॥
अशस्त्रवध्यतां तात समरे सत्यविक्रम ।
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ॥ २८ ॥
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ।
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ॥ २९ ॥
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ।
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ॥ ३० ॥
भवान् जीवातवेऽस्माकमञ्जनागर्भसम्भवः ।
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ ३१ ॥
वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ।
दक्षो विक्रमसम्पन्नः पक्षिराज इवापरः ॥ ३२ ॥
त्रिविक्रमे मया तात सशैलवनकानना ।
त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ ३३ ॥
तथा चौषधयोऽस्माभिः सञ्चिता देवशासनात् ।
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ॥ ३४ ॥
स इदानीमहं वृद्धः परिहीनपराक्रमः ।
साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ॥ ३५ ॥
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।
त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहीनी ॥ ३६ ॥
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।
परा हि सर्वभूतानां हनुमन् या गतिस्तव ॥ ३७ ॥
विषण्णा हरयः सर्वे हनूमन् किमुपेक्षसे ।
विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ॥ ३८ ॥
ततस्तु वै जाम्बवता प्रचोदितः
प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षयंस्तां हरिवीरवाहिनीं
चकार रूपं पवनात्मजस्तदा ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥
<< 65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम् 67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः >>1. प्रथमः सर्गः – रामविप्रलम्भावेशः
2. द्वितीयः सर्गः – सुग्रीवमन्त्रः
3. तृतीयः सर्गः – हनूमत्प्रेषणम्
4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्
5. पञ्चमः सर्गः – सुग्रीवसख्यम्
6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्
7. सप्तमः सर्गः – रामसमाश्वासनम्
8. अष्टमः सर्गः – वालिवधप्रतिज्ञा
9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः
10. दशमः सर्गः – राज्यनिर्वासकथनम्
11. एकादशः सर्गः – वालिबलाविष्करणम्
12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्
13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः
14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्
15. पञ्चदशः सर्गः – ताराहितोक्तिः
17. सप्तदशः सर्गः – रामाधिक्षेपः
18. अष्टादशः सर्गः – वालिवधसमर्थनम्
19. एकोनविंशः सर्गः – तारागमनम्
21. एकविंशः सर्गः – हनुमदाश्वासनम्
22. द्वाविंशः सर्गः – वाल्यनुशासनम्
23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्
24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्
25. पञ्चविंशः सर्गः – वालिसंस्कारः
26. षड्विंशः सर्गः – सुग्रीवाभिषेकः
27. सप्तविंशः सर्गः – माल्यवन्निवासः
28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्
29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्
30. त्रिंशः सर्गः – शरद्वर्णनम्
31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः
32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः
33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्
34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्
35. पञ्चत्रिंशः सर्गः – तारासमाधानम्
36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः
37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्
38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्
39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः
40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्
41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्
42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्
43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्
44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः
45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा
46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्
47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्
48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः
49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः
50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः
51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्
52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्
53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः
54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्
55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः
56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः
57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्
58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः
59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः
60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्
61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्
62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्
63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः
64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्
65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्
66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्