वाल्मीकि रामायणे किष्किन्धकाण्ड - षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

॥ भूषणप्रत्यभिज्ञानम् ॥

पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ।
अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ॥ १ ॥

हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ।
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ॥ २ ॥

रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ।
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥ ३ ॥

अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ।
भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे ॥ ४ ॥

अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ।
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले ॥ ५ ॥

अहमानीय दास्यामि तव भार्यामरिन्दम ।
इदं तथ्यं मम वचस्त्वमवेहि च राघव ॥ ६ ॥

न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ।
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ ७ ॥

त्यज शोकं महाबाहो तां कान्तामानयामि ते ।
अनुमानात्तु जानामि मैथिली सा न संशयः ॥ ८ ॥

ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ॥ ९ ॥

स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ।
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ॥ १० ॥

उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ।
तान्यस्माभिर्गृहीतानि निहितानि च राघव ॥ ११ ॥

आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ।
तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ॥ १२ ॥

आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ।
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ॥ १३ ॥

प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ।
उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ॥ १४ ॥

इदं पश्येति रामाय दर्शयामास वानरः ।
ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ॥ १५ ॥

अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ।
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ॥ १६ ॥

हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ।
हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम् ॥ १७ ॥

निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ।
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ॥ १८ ॥

परिदेवयितुं दीनं रामः समुपचक्रमे ।
पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया ॥ १९ ॥

उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ।
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ॥ २० ॥

उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ।
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ॥ २१ ॥

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ २२ ॥

ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ।
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ॥ २३ ॥

रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ।
क्व वा वसति तद्रक्षो महद्व्यसनदं मम ॥ २४ ॥

यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ।
हरता मैथिलीं येन मां च रोषयता भृशम् ।
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ २५ ॥

मम दयिततरा हृता वनान्ता-
-द्रजनिचरेण विमथ्य येन सा ।
कथय मम रिपुं त्वमद्य वै
प्लवगपते यमसन्निधिं नयामि ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ॥ ६ ॥

<< 5. पञ्चमः सर्गः – सुग्रीवसख्यम् 7. सप्तमः सर्गः – रामसमाश्वासनम् >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः