वाल्मीकि रामायणे किष्किन्धकाण्ड - सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

॥ जटायुर्दिष्टकथनम् ॥

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १ ॥

कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे ।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ २ ॥

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ ३ ॥

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ ४ ॥

अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात् ।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ ५ ॥

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।
तस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥ ६ ॥

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ।
सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥ ७ ॥

इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ।
शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ॥ ८ ॥

श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ।
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ॥ ९ ॥

चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ।
सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ॥ १० ॥

कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ।
एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ॥ ११ ॥

अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा ।
बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ॥ १२ ॥

ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ ।
सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ॥ १३ ॥

लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम ।
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ॥ १४ ॥

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५ ॥

पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ।
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ १६ ॥

रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ।
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥ १७ ॥

रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १८ ॥

एवं गृध्रो हतस्तेन रावणेन बलीयसा ।
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ १९ ॥

ततो मम पितृव्येण सुग्रीवेण महात्मना ।
चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ २० ॥

मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।
निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥ २१ ॥

स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ २२ ॥

एवं रामप्रयुक्तस्तु मार्गमाणास्ततस्ततः ।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥ २३ ॥

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ।
अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ॥ २४ ॥

मयस्य मायाविहितं तद्बिलं च विचिन्वताम् ।
व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ २५ ॥

ते वयं कपिराजस्य सर्वे वचनकारिणः ।
कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ २६ ॥

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

<< 56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः 58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः